________________ युद्धे साध्वायुधश्रीः शशिसमयशसां योनिराार्यगीर्या सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशस्ता // 92 // भूमानं बिभ्रतोऽपि प्रकटयति झटित्योजसा स्वेन हानि स्नेहस्योच्चैः पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या / यान्याहक्षेव साक्षात्कृतनयनपथातीतवस्तुस्वरूपा दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः // 93 // ज्योतिमैत्रं न यत्र प्रविचरति रुचिर्नैन्दवी न प्रकाश्यं यद्भासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव / वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या सार्हद्रारत्यरत्या वियुततनुलतान्वः क्रियादक्रमेण // 94 // सालङ्कारां करोति श्रुतिमति विशदन्यायरत्नोद्भटश्रि श्रीमद्भिर्धार्यमाणं गतमतिविभवैर्दुर्लभं भास्वराङ्गम् / सद्वृत्तोदात्तरूपं व्युपरतविकृतेर्यत्तुलां कुण्डलस्य . क्षिप्रं बिभ्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदय॑म् // 95 // नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्राद्धदेवादश्रीणां नाश्रयोऽश्रु स्रुतिरपि न न वा विस्त्रसा न श्रमो वः / नाविश्रम्भश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः श्रुत्वा यां श्रीजिनस्याश्रियमभिभवताद् गौरसौ साक्श्रुतीष्टा // 96 // मिथ्यादृक्पाथसान्त तगुरुविपदावर्तगर्तं गरीयःसर्पत्कन्दर्पसर्प प्रचरितकुनयानेकनकादिचक्रम् / यत्प्राप्य प्रोत्तरन्ति प्रततमपि भवाम्भोनिधि साधुबन्धं पातात्पोतायमानं तदवमपतनाज्जैनचन्द्रं वचो वः // 97 // सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती क्लेशग्रीष्मोष्मशोषं स्वमहिमभवनात्संहरन्ती रजांसि / . 27