________________ ध्वस्ता मत्पतयः समेऽपि तरसाऽमुष्य प्रतापव्रजैः सर्वे मत्पतयो नमन्त्यमुमयं मत्स्वामिनां वाऽग्रणीः / विश्वेऽस्मिन् मम विश्वसंस्तुतमतेस्तदास्यमस्योचितं गौर्यत्पादयुगं श्रितोऽङ्कमिषतो मत्वेति वः पातु सः / // 9 // स्वः शास्तीव धनं घनं तनुभृतामेनं घनच्छायया . संछन्नः पटुपल्लवैः परिवृतो दास्यत्यसावादितः / / एवं ज्ञापयितुं किमम्बुजभुवाऽमुष्यैकचिह्नच्छलादङ्केऽकारि वृषः श्रियं स तनुतां देवः सतां ज्ञानभूः // 10 // स्त्री-स्तम्बरम-कानन-द्रुम-नदी-भोज्याधिपा अप्सरःशुभ्रानेकप-नन्द[न]र्तुमहिरुड्-गङ्गा-सुधा-शकताम् / प्रापुर्यस्य पुरः स्थितास्त्रिजगतीनाथस्य तत् सोऽङ्कगो- . ऽमुष्यैवाऽर्हति गां न्यधाद् विधिरतो यत्पादयोः स श्रिये // 11 // हन्यादूर्जितमार्यवृत्तविमुखं नेतैतदङ्कः स्मरं वैराग्याम्बुजपुञ्जभञ्जनकरी(रो) घात्योऽस्त्यथी(थो) मेऽपि सः / मत्वैवं भगवान् वृष वरगतिर्योऽङ्के दधावात्मनस्तं संसारविकारवारिजविधुं वन्दामहे श्रीजिनम् // 12 // आबाल्यादपि गोरसैः प्रियरसैः सन्तुष्टचित्तस्य मे / स्थातुं हीमुचि नोचितं च्युतधियां वृन्दे पशूनां ध्रुवम् चक्रे यत्पदयोरुपास्तिमृषभो मत्वैवमङ्कच्छलात् तं छायासुभगं महीरुहमिवाऽध्वन्यः श्रये श्रीजिनम् // 13 // प्रोच्चैश्चित्तचमत्करी म[म] गतिः सम्पत्तिहेतुर्नृणां . बाल्यादप्यमुना बलेन सहजस्याऽप्याददे स्वामिना / स्थानं निर्गतिकस्य मेऽयमुचितो विश्ववयीनायकस्तस्थौ यत्क्रमयोवृषोऽङ्कमिषतो ध्यात्वेति वः सोऽवतात् // 14 // 30