________________ बाहुश्रुत्यं दधद्भिर्बहुधवलगुणः संगतो गीयते यत्स्यादर्थानर्थदर्शीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः / कर्णाभ्योपसर्पि द्वितयमुपवहद् द्राघिमाणं यदीयं योगीशस्याननं तच्छकलयतु कलां काश्मली हेलया वः // 69 // राजीव त्वं निजा जयसि बहुरजः सत्कथं कथ्यतां मामृक्षेश क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् / सद्गन्धश्वासलुब्धभ्रमदलिपटलप्रोच्छलद्राणतो यद् वक्तीव व्यक्तमक्तास्नपयतु रजसा वस्तदर्हन्मुखाब्जम् // 70 // यत्सौम्यत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्ति व्यालोक्यालोकिताशः कृशतनुरविशत्स्वश्रियोऽन्तर्द्धिमिच्छुः / स वीडत्वादिवेन्दुर्मुडविकटजटाजूटौद्राटवी वो यच्छत्वच्छिनवाञ्छं सुषममितमृतेराननं तन्मनोहत् // 71 // लावण्यार्ण:प्रपूर्णं चलगनीमिषं राजहंसोपजीव्यं / भ्राम्यद्भूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम् / सच्छङ्ख मानसाहूं सर इव तरसा मानसस्यातनोति प्रहृत्तिं वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु // 72 // सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतदात्तस्वश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति / निर्वाकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलग्ने यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः // 73 // अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य / लेखाली लालितालं प्रबलबलकुलोन्मूलिना शैलराजे प्रना लीलया वो दलयतु कलिलं लोलक्तज्जिनास्यम् // 74 // . 23