________________ ___.. // 83 // एकारण्यनिवासिनः सहचरीभूतस्य दुष्टात्मनो भल्लूकस्य विमुग्धरञ्जनवचोलालित्यमातन्वतः / हे सारङ्ग ! न विश्वसे ऋजुमते ! येनैष मित्राण्यपि, द्रुह्यत्यतिकैतवो न हि कृते भद्रेऽपि भद्रङ्करः यदि समयवशादयं द्विरेफो विलसति कासकरीरकिंशुकेषु / न हि मुदमदसीयमानसं तु स्पृशति विना मृदुमालतीप्रसूनम् / / 84 / / पुरा नर्मदानिम्नगाकेलिभाजो द्विपास्तर्जनामात्रकेऽप्यक्षमा ये / क्षमन्तेऽधुना तेऽप्यहो दैवयोगा-ज्जरानर्जराः काकचञ्चुप्रहारम्।। 85 / यद्वासरान् गमयति भ्रमरः करीर-पुष्पेषु तत्र मधुपस्य न मल्लिकायाः। मन्तुः परं त्वतिकठोरतुषारराशेर्यत्प्लोषितानि सकलानि सुमान्यनेन 86 वृद्धिभावमुदधे न दधासि यत्पुनव्रजसि दूरतरं च। दृष्ट्वेर्ण्ययेव जलदं जलदानैः प्रीणयन्तमवनीमिति मन्ये // 87 // माकन्दमेनमपकारभयादनिघ्नन् पान्थाश्मभिः कथमिह स्थितिमातनोषि तेषां यदेष फलदो दृषदादिभिर्यैरहन्यते च कपिवत्परिमद्यते वा 88 यदर्कपुष्पेषु मधुव्रतोऽसौ तुच्छेष्वभव्येष्वपि रंरमीति / तदस्य किं वाच्यमनेन यन्न जपादिपुष्पं भ्रमतापि लब्धम् // 89 // मत्तद्विपेन्द्र करिणीरसलोलुपः सत्रुद्यौवनत्ववहमानमदप्रवाहः / क्षुद्रा अमी इति धिया तुदसि द्विपेन्द्रांस्तद् दृक्ष्यसि स्वसमये यदि मे सृजन्ति // 9 // यदि कण्टककोटिकोटिभि-भ्रमर ! त्वां तुदतीह केतकी। तदिमां त्यज येन मालती-प्रमुखाः सन्ति लता न किं तव // 91 // आत्मीयवर्गोन्नतिलेशमात्रं मृगाधिराज ! क्षमसे न येन। तदर्शनात्प्रत्युत कोपनस्त-त्यक्ते शरण्ये भ्रमसि त्वमेकः // 92 // 248