________________ नलिनि त्वमर्तिमथ मैव कृथा नवरङ्गभाजि कनकद्रुसुमे / मनुते रतिं मधुकरः किल यन्न हि कः कलाविह नवाभिमुखः 73 नक्रासन्नीकृतोऽपि स्वकरसरसिजद्वन्द्वमास्थापितः सन् भूयोभूयोऽथितोऽपि त्वमथ न हि कदाप्यत्र सौरभ्यलेशम् / दत्से हे काकंतुण्ड ! प्रकृतिखरतरस्तेन जाज्वल्यमानज्वालाजिह्वे न दग्धः सकलमपि हहा हारयिष्यस्यवश्यम् // 74 // त्रयस्त्रिंशत्कोटित्रिदशमुखमग्ने पुनरपि प्रतीतिं बिभ्राणस्त्रिदशपरपर्यायजनिताम् / प्रकुर्वन्तं सेवामपि दहसि होतारमधमः क्षणं स्पृष्टो युक्तं न हि भवति तेजस्विन इदम् // 75 // ददन् जलं त्वं स्मयतोऽस्घट्ट ! किं चाकचिक्यं कुरुषेऽल्पदायिन् / यदेनमालोकय वारिवाहं जलस्थलैकीकरणं क्षणेन . // 76 // रेवानदीसलिलविन्ध्यमहीध्रजातसत्सल्लकीविपिनकेलिरनेकपस्य। आत्ता त्वया द्रुहिण! किं त्विदमीयमेव क्षिप्रप्रभञ्जनबलं त्वयका हियेत फलाशया मालिक! आलवाल उपत्वा भवन्तं पयसाभिषिञ्चन्। कृत्वा वृति प्रागवति स्म यत्नात् फलेन वन्ध्यः किमभूरथाम्र // 78 // कण्ठीरवाकुण्ठकठोरवीर्य! भवान् समर्थोऽपि किमर्थकारी। त्वत्तोऽल्पशौर्या अपि सैरभेयाः परोपकारंरचयन्ति लोके // 79 // बालेय शाड्वलयवानधिगम्य पृष्ठे गण्डोलयन् किमधुना वहसेऽभिमानम् यत्सर्वदैतदशनाः कुलजास्तुरङ्गास्त्वं तूज्झितावकरशुष्कतृणैकभोजी८० सरसं शुभवर्णमुत्तमं फलमासाद्य मदो विधीयते / किम्पाकद्रुम किं त्वया सदा विषमिश्रितमन्तर्दुरात्मना // 81 / / समानलक्ष्मीण्यपि चैकपङ्क्ति-गतानि पद्मानि च कैरवाणि / ' स्मेराणि मुद्राणि सृजन् सहस्र-भानो ! न युक्तं तव पङ्क्तिभेदिन् ! 82 247