________________ उन्मूल्य क्षिपसि क्षणेन बहुलैदूरे जलप्लावनैगर्विष्टेम्बुदवृष्टिवर्धितजला धिक् त्वां ततो निम्नगे. // 63 // अम्भोऽर्पणव्यसनतस्तु पिपासितानां ग्रीष्मेऽप्यसज्जलधिगे खनितापि दत्से पानीयबिन्दुमपि पेयमयं भक्त्या दत्ते परं न रमणः कृपणः समुद्रः 64 अयि कीरकुञ्जर कथं न हि ते भवति त्रपा फलितचूततरुम् / शुभगोस्तनी च कदली सरसां परिहाय निम्बफलमत्सि यतः // 65 // द्विरदाः प्रचुरा इमे ममे-ति धिया विन्ध्यगिरे जहासि किं। दलमण्डनतां भजन्त्यमी पुनरेभिर्भविता तवैव हानिः // 66 // : आननमभितो यदसि त्र्यधिकत्रिंशत्सुपर्वकोटीनाम्। . अद्यास्तच्च ततोऽनल ! युक्तं यत्त्वं सर्वतोभक्षी // 67 // विन्ध्याचलेन गजराज ! यथा प्रसूतस्त्वं कर्षितस्तव तथापि न कापि हानिः / यद्यस्ति ते परचमूदलनाय शक्तिः, कल्याणिनी खलु नृपादरणीयता च. // 68 // स्वकपोलमदैः प्रलोभित-श्चिरमेष प्रथमं मधुव्रतः तमथो गजराज ! निघ्नतो न हि लज्जापि समभ्युपैति ते // 69 // दविष्टसन्दर्शितरम्यरूपं तुझं महान्तं बत सानुमन्तम् / मावापिथाः पान्थ ! समीक्ष्य मोहं दृषन्मयोऽयं कठिनो यदस्ति।। 70 // श्रीखण्डरक्षणकृते परितो भुजङ्गैर्वृत्तिं करोषि मलयाचल मत्सरी सन् / मिथ्यैव सा हि गुणिनो यदि वा निरुद्धास्तत्किं निरुद्ध इदमीयगुणज्ञलोकः किं खिद्यसे भ्रमर ! कण्टकिपङ्कजिन्या मुद्राणकोशकुहरे पतितः प्रसह्य / . यच्छाह्यहार्दमनया बहु दर्शयित्वा त्वद्भातरः किल वयस्य ! न पातिताः के // 72 // 246