________________ विदुरैस्तुलितोऽसि वल्ल चेद्-घनसारेण समं स्वकार्यतः / युवयोः परमन्तरं मिथो बहुलं मदं तेन प्रयाहि मा // 42 // किंहस्तिनि द्विरदमङ्गजमात्मनीनं प्रख्यापयस्यनुदिनंबलिनंचशूरम्। यद्यस्त्ययं बहुबली बहुतस्तथापिकिंषोडशीमपिकलां लभतामिभारेः।४३ रेचक्रवाक! भवतोन वियोगदुःखंसूर्येण भिन्नमथतस्यकिमुक्तिरत्र। किंनिष्फलांस्मृतिमहर्निशमेतदीयांनिर्मासि निस्त्रप!तथापिविचारमूढ / 44 क्षीरोदकव्यक्तिकरोऽसिहंसमा भूरहङ्कारमनास्तथापि। तद्व्यक्तिकी भुविमक्षिकापिकापिसमस्तिखलुसम्प्रति दुग्धलुब्धा / 45 धिग्विधे ! तव विधानकौशलं पङ्क्तिभेदभवपातकाशुचेः। . श्रीयुतो विहित एकको नरो निर्धनो बत विलोक्यते परः // 46 // लोकैर्यष्टिप्रभृतिभिरपि व्याहता न त्यजन्ति स्वस्थानं ये कदशनलयाः कुर्कुराद्याः परे ते। ये तिष्ठन्ति व्यपगतभयं सानुमत्कन्दरासु / न्यक्कारेऽपि धितमनसस्ते वयं पञ्चवक्त्राः .. // 47 // चतुरहृदयहारिणी गतिस्ते वपुषि बलं च महत्त्वमप्रमाणम् / गजवर ! दलमण्डनं तथापि क्षिपसि रजः शिरसीति किं चरित्रम् 48 परिशीलयसीह किं सरो बहुसेवालमलं सितच्छद ! / यदि दास्यति शैवलादि तद् भविता प्रत्युत ते त्रपाकरम् // 49 // म्लानाम्बुजानि कलुषोदकशैवलानि चक्रे सरांस्यथ मरिष्यति हंसवर्गः। मा चिन्तयेति घन! यत्कनकाब्जवन्ति भूयांसि मानससर:प्रमुखान्यमुष्य आजन्मावधिनिर्मितातिबहला शाखाप्रशाखादतैश्छाया यैः परिशीलितं जलधिगे तीरं पुनस्तावकम् / तानुन्मूलयसि प्रवर्धितपयोलक्ष्म्याभिवृद्धस्मया यद्दानावसरेऽपि तेन बत ते धन्या गुणज्ञातृता 244 // 51 //