________________ अम्भोधर ! त्वमधुनाम्बु जनाय नो यद्दत्से तदेष भवतावसरो न लभ्यः / काले प्रचण्डपवनप्रहतस्य यस्मान त्वं न चाम्बुकणिकाप्युपकारकृत्ते श्रीपुष्करावर्तमुखा विदध्यु-स्त्वत्पूर्वजाः सत्वरमम्बुवृष्टिम् / तद्वंशजन्माप्यधुना विलम्ब्य दत्सेऽम्बु धाराधर ! तन्न युक्तम् // 33 // अयि सितच्छदसुन्दर ! मा कृथाः खलबलाहकपडिक्तगतः सखे। निजगुणान् प्रकटान् यदयं गणो न गुणविद्विगुणो गुणमत्सरी // 34 // नो वारिवाह ! पयसः स्पृहयालुतास्यत्वत्तत्स्तु तुष्यति परं मधुरोक्तिभिर्यः कस्ते त्वदेकशरणं शिखिनं वयस्यं यद्गर्जितैरपि विनोदयितुं विलम्बः रे रे कुरङ्गवर ! निर्झरनीरधारामाकण्ठमापिब सखे ! खलु सम्प्रति त्वम् / एषापि दुर्लभतरा पुरतः प्रसर्पत्युष्णे खले मरुति यत् व पयोलवोऽपि पश्यन् वक्रदशां परस्य चरितं धूर्तावलीग्रामणी: काकस्त्वं कपटी पशून् वृणवतश्चञ्चुप्रहारैस्तुदन् / अक्षुद्रप्रकृतील्लघूनपि खगानुद्वासयंश्छद्मना। . तस्मात्कौशिक एक एव भवतः शिक्षाप्रदानक्षमः . // 37 // रेचञ्चरीक!तुदतींकटुकण्टकौधैर्यत्केतकी भजसिरक्तमनस्कधिक्त्वाम् प्रख्यापयन्परिमलैकगुणंजनेषुसन्तंघनास्वपिजपादिकगुल्मिनीषु।३८ किं प्रतारयसि चातकं भवत्कल्पितैकशरणं शरद्घन ! / ऊर्जितैरतनुगजितैश्च किं बिन्दुमात्रमपि नो ददासि चेत् // 39 // विन्ध्योर्वीधरसलकीकवलनं तां शर्मदां नर्मदा स्वच्छस्वादुपयःप्रभूतलहरीलीलावती च स्मरन् / आः किं भद्र ! गजेन्द्र ! दुर्बलतनुस्त्वं चिन्तया जायसे यदैवात्समुपस्थितं तदखिलं धैर्यात्क्षमस्वाधुना प्रीणयस्यमृतदीधिते द्युता निर्विशेषमखिलं जनं पुनः / किं विनाशितमनेन तत्र-यच्चकवाककुलमर्दयस्यदः // 41 // 243 // 40 //