________________ अभ्रंसमीक्ष्यशरदभ्रमनोहरश्रियाचस्वमा चतुरचातक! चाटुवाचा। अस्माद्बथोन्नतिमतस्तवनास्तिसिद्धिर्निस्सारएषभवतोविफलः प्रयासः।२४ ज्ञात्वा भवन्तममलंपरिशीलनाय प्राप्ताः सरोवर!वयंखलु राजहंसाः। प्रादुष्कृतं च कलुषं प्रथमंत्वयाम्बु सेव्यं सर: सहजनिर्मलमानसं नः।२५ येषामङ्कतले चिराय विलुठन् बालोऽपि वृद्धोऽभवः स्वादस्वादमुदारपल्लवदलश्रेणीरियद्वासरान् / / यस्याः स्वादुपयःप्रवाहपटलैः क्रीडामकार्षीः करिन् मनस्तानथ पादपांश्च सरितः कूलं न किं लञ्जसे // 26 // रे रे बलाहक ! मनोज्ञमण्लमालामध्याधिवासकतया बुबुधे जनस्त्वाम् / हंसं ततः स्मयभरं ननु मा कृथास्त्वं शोभानिदानमिदमीयगुणानुभावः निश्शेषेषु सरस्सु शैवलमिलज्जम्बालजालं जलं पर्जन्यैः सुकुमारपङ्कजवनं निर्मूलमुन्मूलितं / आधारस्त्वमथैव मानससर: संसेव्यमस्मादृशामेकं पङ्कजपेशलं. न हि ततो धार्यं त्वया शैवलम् // 28 // बाह्यामम्बरधारिणः परिमलभ्रष्टान् प्रफुल्लानिमानुद्दीक्ष्य प्रसवांश्च शाल्मलितरोः श्रीराजहंसोत्तम ! / नीरक्षीरविवेचकोऽपि निपुणप्रष्टोऽपि पद्माशया भ्रान्तस्त्वं तमभिव्रजन्नसि तदा शिक्षाथ केषामिह अस्मिन् जीवहितावहे जलधरे दानैकनिष्ठे पयःपूरैः पूर्णमिलातलं रचयितुं बद्धादरे सत्यपि / रे चण्डानिल ! यदिशोदिशमयं दूरं त्वया क्षिप्यते प्राणिप्रौढमनोरथैः सह तदा क्षुद्र ! क्षयं प्राप्नुहि . // 30 // तापयसि जगदशेषं तत्ते चरितं न सुन्दरं शूर!i . भुवनप्रकाशको य-मित्रमसि त्वं जगच्चक्षुः / // 31 // __ // 29 // 242