________________ दूरं तान्यपि यद्दलानि विटपिन् ! विक्षेपयस्येष्यतां पत्राणां स्पृहया दुराशय ! ततो धिक् तेऽधमं चेष्टितम् // 15 // सच्चक्रवाककलहंसकपोतकेकि-द्वन्द्वोपभोग्यविमलोदकपूरपूर्णे। लोकंपुनात्यपितृषामपिसंहरन्तीधिक्त्वांनदिव्रजसिवक्रपथेन यत्त्वम् कल्लोलिनीरमणयन्निजमङ्गजातमुत्सङ्गवर्धितमुदारगुणाभिरामम्। निर्दोषशङ्खमपकर्षसिनैवकिञ्चिद्दत्सेचतेनमहतस्तवनैवयुक्तम् // 17 सारङ्ग!रागरसिकोनिजकीयशीर्षंधुन्वन्नमस्यसितरांचदधासिरागम्। सर्ववृथैवतव भक्तिमिमांनवेत्ति यल्लुब्धकोऽयमदयश्चगुणानभिज्ञः // 18 श्रीचन्दनस्तुविफलोऽपिजगज्जनानांनिष्कारणंस्ववपुषैवभिनत्तितापम् . भिल्लातकत्वमथयत्पिटकाविधत्सेसम्पर्कतोपिदहसेविपरीतरीतिः।१९ रक्षापीक्षुरसेन संश्रितवती स्वं स्वस्वरूपीकृता . मिष्टख्यातिमवापिता गुड इति श्रेयान् कनिष्ठोऽप्ययम् / निम्ब ! त्वं कटुकं फलं लघु पुरस्कुर्वन् श्रितानां द्विजश्रेणीनां तदतोऽधमाधम हि ते धिग्पर्युपास्तेः फलम् // 20 // इयत्कालं त्वासीत्सरसकलिकापेशलफलैः / परिक्षीणस्तस्मात्त्वदुचित इति त्वञ्च वसतिम् / चकर्षाथान्यत्र द्विक विचर नैष सफलो रसालः सञ्जातस्तदिह पिकराजो विलसताम् // 21 // आः क्षुद्रावकराकरातिकठिनोच्चत्वप्रवृद्धस्मयो / निर्मास्युच्चतयातितुङ्गगिरिणा साकं तुलामुद्धतः / बीभत्सः क्व. भवान् क्व एष बहुलच्छेकालिलीलागृहं स्फूर्जत्तालतमालसालबकुलादिद्रूल्लसद्विभ्रमः // 22 // उत्तुङ्गशैल! भवतः प्रणितापआस्तांनन्दन्तु पेशलरसालमुखाश्च वृक्षाः। आसादितैवसकलाभिमतार्थसिद्धिर्नोपद्रुतंममयतः किल हिंस्रजीवैः।२३ 241