________________ // 2 // गणिश्रीदर्शनविजयविरचितम् ॥अन्योक्तिशतकम् // वाग्देवीस्फुरदैङ्कृतिश्रितनमोमन्त्रापनिद्रस्मृतिप्रोद्भूतप्रबलप्रभावपटलप्रौढीभवत्सत्सखः / कुर्वेऽन्योक्तिलसत्कवित्वशतकं विद्वत्सभारञ्जनं, नत्वा सत्त्वशिवङ्करं विनयतः श्रीपार्वतीर्थङ्करम् रत्नाकरोऽसि कमलाजनकोऽस्यमानमानोऽसि निर्मलसुधारसपेशलोऽसि / दत्सेम्बुबिन्दुमपि नो तृषितस्य तत्किं, सन्दर्शयन् वदनमर्णव ! लज्जसे न संवर्धमानकमलोदयशालिनस्ते व्रीडापि किं जलनिधे ! हृदि नाभ्युदेति / धत्से पुरो यदवलोककलोकपङ्क्तेडिण्डीरदारुतृणकाणवराटकानि सितच्छदं विकस्वरस्फुरदनेकपङ्केहं सरोवरमनाविलोज्ज्वलजलं विलासोचितम् / अहारि विधिना परं सलिलदुग्धयोर्व्यक्तिकद्गुणस्तु तव सुस्थितस्तदिह सम्पदः पुष्कला: विश्वं लोकमहर्मणे स्वकिरणैरुद्योतयस्यन्वहं बिभ्राणः सकलग्रहाधिपतितां तेजस्विनामग्रणीः / त्वं चेत्कोमलकेलिकाननमथो बब्बूलवृक्षादिकान् कामं तुल्यतयैव तापयसि ते कामौचिती ब्रूमहे श्रीचन्दनद्रुम ! शिवानि भवन्तु तुभ्यं निम्बोऽपि यनिजसमो विहितोन्तिकस्थः / // 3 // // 4 // ... . .236