________________ // 92 // // 93 // // 94 // // 95 // उन्मीलति स्म ललिताङ्ग्यधुना स एव, मन्मानसे शुचिविवेककलाविलासः प्रत्यक्षो नरकः स एष वसुधापीठे परायत्ततेत्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह / तन्नारीवशवत्तिनोऽपि विषयान्कण्डूतिकल्पानयं, रोमाञ्चाङ्कुरचर्चिताङ्गलतिकः किं नाम नैवोज्झति ? ता एवैताः कुवलयदृशः सैष कालो वसन्तस्ता एवान्तःशुचिवनभुवस्ते वयं ते वयस्याः / किन्तूद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो, येनेदानी हसति हृदयं यौवनोन्मादलीला को देवो? वीततमाः, कः सुगुरुः शुद्धमार्गसम्भाषी। किं परमं विज्ञानं ?, स्वकीयगुणदोषविज्ञानम् यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गताम्रोद्भवं, . नो यत्संयमलोहजन्म न च यत्संतोषमृत्स्नामयम् / यद्योग्यं न तपोविधानदहनज्वालावलीतेजसां, . सिद्धिं याति ? कथं नृधान्यनिकरस्तस्मिन् कुपात्रे श्रितः हे मोहाहतजीव ! हुं शृणु वचः श्रद्धाऽस्ति चेत्कथ्यतां, प्राप्तं किञ्चन सत्फलं भवमहाउंटव्यां त्वया भ्राम्यता। भ्रातर्नैव तथाविधं किमपि तन्निर्वाणदं तर्हि किं, शून्यं पश्यसि ? पङ्गुवननु गतं नोपक्रमे तिष्ठति शौक्ल्ये हंसबकोटयोः सति समे यद्वद्गतावन्तरं, कार्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते / पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्धता, मानुष्ये सदृशे तथाऽऽर्यखलयोर्दूर विभेदो गुणैः 237 // 96 / / // 97 // // 98 //