________________ धातश्चेन्न दयालुता तव हृदि स्थानं बबन्ध क्षणं, तत्किं हन्त ! परिश्रमोऽपि निकटीभूयं न सम्पन्नवान् ? // 5 // रक्षाकृते धनलवस्य विमूढचेता, लोकः परं किमपि सन्तनुते प्रयत्नम् / तल्लक्षकोटिभिरनाप्यमपीदमायुः, कालो निकृन्तति न तन्ननु शङ्कतेऽपि // 86 // बन्धो ! क्रोध ! विधेहि किञ्चिदपरं स्वस्याधिवासास्पदं, भ्रातर्मान ! भवानपि प्रचलतु त्वं देवि माये ! व्रज / हंहो लोभसखे ! यथाऽभिलषितं गच्छ द्रुतं वश्यतां, नीतः शान्तरसस्य सम्प्रति लसद्वाचा गुरूणामहम् // 87 // मनो न वैराग्यतरङ्गितं चे-वृथा तदा दानतपःप्रयासः। लावण्यमङ्गे यदि नाङ्गनानां, मुधा तदा विभ्रमवल्गितानि // 88 // विश्वाः कलाः परिचिता यदि तास्ततः किं ?, तप्तं तपो यदि तदुग्रतरं ततः किम् ? / कीर्तिः कलङ्कविकला यदि सा ततः कि- . मन्तविवेककलिका यदि नोल्ललास // 89 // स्फूर्जल्लोभकरालवक्त्रकुहरो हुङ्कारगुञ्जारवः, कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् / स्वैरं यत्र स बम्भ्रमीति सततं मोहाह्वयः केसरी, तां संसारमहाऽटवीं प्रतिवसन्को नाम जन्तुः सुखी? // 90 // एक: स वैवस्वत एव देवः, शौण्डीर्यशाली च महाव्रती च / पशौ च गीर्वाणपतौ च यस्या-विभिन्नमुद्रस्य दृशः पतन्ति // 91 // एतानि तानि मदनज्वलनेन्धनानि, दूरीकुरुष्व मयि वक्रविलोकितानि / 235