________________ // 80 // जानन्नहं पुनरमून् करीकर्णलोलान्, भोगाँस्त्यजामि न तथापि क एष मोहः? // 78 // 'ज्ञानमेव परं मित्रं, काम एव परः परः / अहिंसैव परो धर्मो, योषिदेव परा जरा // 79 // धिक्कन्दर्प ! जगत्त्रयीविजयिनो दो:स्थामविस्फूर्जितं, विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् / दृष्ट्वा यौवनमित्रमत्रपभवान्सर्पज्जराराक्षसीवक्त्रान्त:पतितं विमुञ्चति न यः कोदण्डकेलिकमम् तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुहस्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रवः पल्लवाः / / यस्या मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते, कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ? // 81 // रे रे मोह ! हताश ! तावकमिदं धिक्पौरुषोज्जृम्भितं, विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् / सम्प्रत्याप्तगुरूपदेशफलक: पारं प्रयातोऽस्म्यहं, शौण्डीर्यं तव विद्यते यदधुना दोष्णोस्तदा दर्शय // 82 // रे कन्दर्प ! किमाततज्यमधुना धत्से ? धनुस्त्वं मुधा, कि भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ? / वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्तदोषाकरः, . खेलत्येष विवेकचण्डकिरणः कस्त्वादृशामुत्सवः ? // 83 // 'अन्यं प्रियालापपथं नयन्ते, किञ्चित्कटाक्षैरपरं स्पृशन्ति। अन्यं हृदा कञ्चन मन्त्रयन्ते, धिग्योषितां चञ्चलचित्तवृत्तिम् // 84 // याञ्चायै वचनक्रमं रचयतः पादौ परिभ्रान्तये, नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् / 235