________________ // 71 // // 72 // // 73 // युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि व्रतं, मां पुण्याप्तगुरुप्रसादमधुना सन्त्यज्य निर्गच्छ रे! तन्नो नागपतेर्भुजङ्गवनिताभोगोपचारैः परैस्तन्नो श्रीसविलाससङ्गमशतैः सारैर्मुरारेः किल / तन्नो वज्रधरस्य देववनिताक्रीडारसैनिभरैर्यत्सौख्यं बत वीतकाममनसां तत्त्वार्थतो योगिनाम् 5 मध्यक्षामतया योषित्तपःक्षामतया यतिः / मुखक्षामतया चाश्वो, राजते न तु भूषणैः ... तन्व्या श्रोत्ररसायनेन वचसा सप्रेमसम्भाषितः, सर्पत्कोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा / सद्योगान तिलाग्रमात्रमपि यः सोभितुं शक्यते, रागद्वेषविवर्जितो.विजयते कोऽप्येष योगीश्वरः आताम्रायतलोचनातुरमिदं म्यक्कारवानिन्दितं, बद्धभ्रू कुटिभालभीममधरप्रस्पन्ददुर्दर्शनम् / व्यालोलालकसङ्कुलं कृशतनोः कोपेऽपि कान्तं मुखं, पश्यन्ति स्मरविह्वलीकृतहृदो ही ! कामिनां मूढता कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते, ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति / धर्मोऽपि प्रपलायते कलयति स्थेमानमंहः परं, यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते? क्व? कफार्तं मुखं नार्याः, क्व? पीयुषनिधिः शशी। आमनन्ति तयोरैक्यं, कामिनो मन्दबुद्धयः पाशे कुरङ्गनिवहो न पतत्यविद्वान्, दाहात्मतामकलयञ्छलभः प्रदीपे / // 74 // // 75 // // 76 // // 77 // 234