________________ // 64 // // 65 // // 66 // तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवान, सम्पूर्णेन्दुमुखी प्रिया प्रियमयी माधुर्यहृद्या सुधा / मुक्तादामगुणावलीपरिचितश्चैत्रस्य चित्रोत्सवो, यावनैव विशन्ति हन्त !! हृदये सिद्धान्तवाक्योत्कराः क्षणमपि न यस्य तिष्ठति, गुरूपदेशो नरेन्द्र इव हृदये। मन्त्ररहस्योद्गारी, मन्त्रीव स दूरतस्त्याज्यः धर्मो यैनिहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके, कार्पण्येन विडम्बितौ सति धने पैरर्थकामावपि / अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा, मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः आकाशेऽपि चिराय तिष्ठति शिला मन्त्रेण तन्त्रेण वा, बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा / दृश्यन्ते ग्रहयोगतः सुरपथे प्राणेऽपि ताराः स्फुटं, हिंसायां पुनराविरस्ति नियतं ग़न्धोऽपि न श्रेयसः निशानां च दिनानां च, यथा ज्योतिर्विभूषणम् / सतीनां च यतीनां च, तथा शीलमखण्डितम् मायया राजते वेश्या, शीलेन कुलबालिका। न्यायेन मेदिनीनाथः, सदाचारतया यतिः यावद्व्याधिविबाधया विधुरतामङ्गं न संसेवते, यावच्चेन्द्रियपाटवं न हरति क्रूरा ज़राराक्षसी / तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना, ध्येयं ध्यानविचक्षणैः स्फुटतरं हृत्पद्मसद्मोदरे अज्ञानावृतचेतसो मम महाव्यामूढतां मोहतां, कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् / 233 // 67 // // 68 // // 69 // / / 70 //