________________ रे रे जीव ! गुरुप्रसादवशतः किञ्चिद्विधेहि द्रुतं, दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् // 57 // श्रीखण्डपादपेनेव, कृतं स्वं जन्म निष्फलम् / जिह्मगानां द्विजिह्वानां, सम्बन्धमनुरुन्धता .. . // 58 // किं ? तर्केण वितर्कितेन शतशो ज्ञातेन किं ? छन्दसा, किं ? पीतेन सुधारसेन बहुधा स्वाध्यायपाठेन किम् ? / अभ्यस्तेन च लक्षणेन किमहो !! ध्यानं न चेत्सर्वथा, लोकालोकविलोकनैककुशलं ज्ञानं हृदि ब्रह्मणः _ // 59 मां बाल्यादपि निनिमित्तनिबिडप्रोद्भूतसख्यश्रियं, दम्भारम्भ ! विहाय सत्वरतरं दूरान्तरं गम्यताम् / पश्योन्मीलति मेऽधुना शुभवशाज्ज्ञानोष्णरश्मिप्रभा, प्रालेयोत्करवद्भवन्तमनया द्रक्ष्याम्यहं त्वां कथम् ? // 60 // कारुण्यान्न सुधारसोऽस्ति हृदयद्रोहान हालाहलं, वृत्तादस्ति न कल्पपादप इह क्रोधान दावानलः / सन्तोषादपरोऽस्ति न प्रियसुहल्लोभान चान्यो रिपुर्युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज / // 61 // औचित्यांशुकशालिनी हृदय ! हे शीलाङ्गरागोज्ज्वलां, श्रद्धाज्ञानविवेकमण्डनवतीं कारुण्यहाराङ्किताम् / सद्बोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां, निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज // 6 // यत्रातिर्न मतिभ्रमो न न रतिः ख्यातिर्न नैवोन्नतिः, .. न व्याधिन विधिनिधिर्न न वधो ध्यानं न नाध्येषणा / नो दास्यं न विलासवाससदनं हास्यं न लास्यं च नो, तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ! 232 // 63 //