________________ मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवीमध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः // 51 // सच्चारित्रपवित्रदारुरचितं शीलध्वजालङ्कृतं, गुर्बाज्ञागुणगुम्फनाद् दृढतरं सद्बोधपोतं श्रितः / मोहग्राहभयङ्करं तर महासंसारवारांनिधि, यांकन प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् // 52 // कि भस्मप्रतिलेपनेन? वपुषो धूमस्य पानेन ? किं, वस्त्रत्यागजुगुप्सया किमनया ? किं ? वा त्रिदण्ड्याऽप्यहो !! / किं स्कन्धेन नतेन ? कम्बलभराज्जापस्य किं ? मालया, वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् // 53 // रोखं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते, भेत्तुं वज्रमयं शिरीषकुसुमप्रान्तेन सनह्यति / माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते, नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैस्सुधास्यन्दिभिः // 54 // मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं, बवा क्रोधपयोनिधि कुटिलतालङ्कां क्षपित्वा क्षणात् / . नीत्वा मोहदशाननं निधनतामाराध्य वीरव्रतं, श्रीमद्राम इव व मुक्तिवनितायुक्तो भविष्याम्यहम् ? // 55 // आहारैर्मधुरैर्मनोहरतरैहारैविहारैवरैः, . केयूरैर्मणिरत्नचारुशिखरैदारैरुदारैश्च किम् ? / प्राणान्यद्यदलानवारितरलाञात्वा जवाज्जीव ! रे, दानं देहि विधेहि शीलतपसी निर्वेदमास्वादय // 56 // ज्ञात्वा बुबुदभङ्गुरं धनमिदं दीपप्रकम्पं वपुस्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोर्बलम् / 231