________________ // 45 // . // 46 // 47 // यो नाप्तस्तव भूरिजन्ममरणैस्तत्किं न तेऽद्यापि ही !, निर्वेदो हृदि विद्यते ? यदनिशं पापक्रियायां रतिः नो स्कन्धेन समुन्नतेन धरसे चारित्रगन्त्र्या धुरं, पृष्ठेनोपचितेन नैव वहसे प्रोच्चैरहिंसाभरम् / . . मिथ्यात्वान्नचयं पदाहतिवशाभो ! गाहसे त्वं यतश्चेतस्तद्गतशङ्क ! सावृषवन्निन्द्यं परिभ्राम्यसि . प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे, नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति / नोपात्तं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये, रे! जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः क्रोधो न्यक्कृतिभाजनं न विहितो नीतो न मानः क्षयं, माया नैव हता हताश ! नितरां लोभो न सोभितः / रे ! तीव्रोत्कटकूटचित्तवशगस्वान्त ! त्वया हारितं, हस्ताप्तं फलमांशु मानवभवश्रीकल्पवृक्षोद्भवम् बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना, तारुण्ये तरुणीसमाहृतहृदा भोगैकसङ्गेच्छुना। . वृद्धत्वेऽपि जराऽभिभूतकरणग्रामेण निःशक्तिना, मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा ! मया यस्मै त्वं लघु लङ्घसे जलनिधि दुष्टाटवीं गाहसे, मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि / तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले, रे रे !! चञ्चलचित्त ! वित्तहतक ! व्यावर्त्ततां मे तदा अज्ञानाद्रितटे क्वचित्क्वचिदपि प्रद्युम्नगर्तान्तरे, मायागुल्मतले क्वचित्क्वचिदहो !! निन्दानदीसङ्कटे। 230 // 48 // // 49 // . // 50 //