________________ तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे, .. दैवायैव ददासि जीव ! नितरां शापं विमूढोऽसि रे! // 32 // बालो यौवनसम्पदापरिगतः क्षिप्रं क्षितौ लक्ष्यते, वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते / सोऽपि क्वापि गतःकृतान्तवशतो न ज्ञायते सर्वथा, पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ! // 33 // द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं, ग्रासाभाववशान्न सञ्चरति यद्रकोऽपि तेषां पुनः / येऽभूवन्विमुखाः स्वकुक्षिभरणे तेषामकस्मादहो !!, यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् // 34 // नापत्यानि न वित्तानि, न सौधानि भवन्त्यहो !! / . मृत्युना नीयमानस्य, पुण्यपापे परं पुरः // 35 // ब्रूतेऽहङ्कृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं, प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् / व्यामोहप्रसरावरोधनविधि सद्ध्यानतो लीलया, नो जानाति हरिष्यतीह हतक: कालोऽन्तराले किल बद्धा येन दशाननेन नितरां खट्वैकदेशे जरा, द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्वदोर्लीलया / श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः, सर्वे तेऽपि गताः क्षयं विधिवशात्काऽन्येषु तद्भोः ! कथा ? // 37 // सर्वभक्षी कृतान्तोऽयं, सत्यं लोके निगद्यते / रामदेवादयो धीराः, सर्वे क्वाप्यन्यथा गताः // 38 // मिथ्यात्वानुचरैर्विचित्रगतिभिः सञ्चारितस्योद्भटै- . रत्युग्रभ्रममुद्गराहतिवशात्सम्मूर्च्छितस्यानिशम् / . 228