________________ // 28 // सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्विपो, नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् / // 25 // दृश्यन्ते बहवः कलासु कुशलास्ते च स्फुरत्कीर्तये, सर्वस्वं वितरन्ति ये तृणमिव क्षुद्रैरपि प्रार्थिताः / धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो, द्वित्रास्ते तु नरा मनस्समरसं येषां सुहृद्वैरिणः // 26 // हृदयं सदयं यस्य, भाषितं सत्यभूषितम् / कायः परहितोपायः, कलिः कुर्वीत तस्य किम् ? // 27 // नास्त्यसद्भाषितं यस्य, नास्ति भङ्गो रणाङ्गणात् / नास्तीति याचके नास्ति, तेन रत्नवती क्षितिः आनन्दाय न कस्य मन्मथकथा? कस्य प्रिया न प्रिया ?, लक्ष्मीः कस्य न वल्लभा ? मनसि नो कस्याङ्गजः क्रीडति ? / ताम्बूलं न सुखाय कस्य ? न मतं कस्यानशीतोदकम्, सर्वाशाद्रुमकर्त्तनैकपरशुभृत्युर्न चेत्स्याज्जनाः ! // 29 // भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुतः, . स्वर्णस्यैष महानिधिर्मम ममासौ बन्धुरो बान्धवः / रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया, मृत्युं पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् // 30 // कष्टोपार्जितमत्र वित्तमखिलं द्यूते मया योजितं,. विद्या कष्टंतरं गुरोरधिगता व्यापारिता कुस्तुतौ / पारम्पर्यसमागतश्च विनयो वामेक्षणायां कृतः, सत्पात्रे किमहं करोमि ? विवश: कालेऽद्य नेदीयसि // 31 // आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो, न क्षान्त्या समलङ्कृतः प्रतिकलं सत्येन न प्रीणितः / 27