________________ .... नश्यति,. सा लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मव्रतं भ्रश्यति, ज्ञानं सङ्कुचति स्मरज्वरवशात्पश्यामि यावत्प्रियाम् / यावत्तु स्मृतिमेति नारकगतेः पाकक्रमो भीषणस्तावत्तत्त्वनिरीक्षणात्प्रियतमाऽप्येषा विषौघायते // 19 // कारुण्येन हता वधव्यसनिता सत्येन दुर्वाच्यता, सन्तोषेण परार्थचौर्यपटुता शीलेन रागान्धता / नैर्ग्रन्थ्येन परिग्रहग्रहिलता यैौवनेऽपि स्फुटं, पृथ्वीयं सकलाऽपि तैः सुकृतिभिर्मन्ये पवित्रीकृता यत्राम्रोऽपि विचित्रमञ्जरिभरव्याजेन रोमाञ्चितो, दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् / सिद्धान्तोपनिषनिषण्णमनसां येषां मनस्सर्वथा, तस्मिन्मन्मथबाधया न मथितं धन्यास्त एव ध्रुवम् // 21 // स्वाध्यायोत्तमगीतिसङ्गतिजुषः सन्तोषपुष्पाञ्चिताः, सम्यग्ज्ञानविलासमण्डपगताः सद्ध्यानशय्यां श्रिताः। तत्त्वार्थप्रतिबोधदीपकलिकाक्षान्त्यङ्गनासङ्गिनो, निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम् // 22 // किं ? लोलाक्षि ! कटाक्षलम्पटतया किं ? स्तम्भजृम्भादिभिः, किं ? प्रत्यङ्गनिदर्शनोत्सुकतया किं ? प्रोल्लसच्चाटुभिः। . . आत्मानं प्रतिबाधसे त्वमधुना व्यर्थं मदर्थं यतः, शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः // 23 // सज्ज्ञानमूलशाली, दर्शनशाखश्च येन वृत्ततरुः। . श्रद्धाजलेन सिक्तो, मुक्तिफलं तस्य स ददाति क्रोधाधुग्रचतुष्कषायचरणो व्यामोहहस्तस्सखै!, . रागद्वेषनिशातदीर्घदशनो दुरिमारोद्धरः। . - 7 226