________________ // 6 // // 7 // // 8 // मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते, भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते / रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते, येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः सौन्दर्यैकनिधेः कलाकुलविधेावण्यपाथोनिधेः, पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः। . कान्ताया नवयौवनाञ्चिततनोर्यैरुज्झितः सङ्गमः, सम्यङ्मानसगोचरे चरति ? किं तेषां हताशः स्मरः शृङ्गारामृतसेकशाड्वलरुचिर्वक्रोक्तिपत्रान्विता, प्रोद्गच्छत्सुमनोऽभिषङ्गसुभगा स्त्रीणां कथावल्लरी / यैर्ब्रह्मव्रतपावकेन परितो भस्मावशेषीकृता, किं तेषां विषमायुधः प्रकुरुते ? रोषप्रकर्षेऽपि रे! आताम्रायतलोचनाभिरनिशं सन्तय॑ सन्तM च, क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभिर्भृशम् / तेषां किं नु विधास्यति ? प्रशमितप्रद्युम्नलीलात्मनां, येषां शुद्धविवेकवज्रफलकं पार्श्वे परिभ्राम्यति अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते, धात्र्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा / आसीद्यावदनङ्गसङ्गतिरसस्तावत्तवेयं स्थितिः, सम्प्रत्यास्यपुरस्सरामपि न तां द्रष्टाऽसि कोऽयं लयः ? योगे पीनपयोधराञ्चिततनोविच्छेदने बिभ्यतां, मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् / . विश्लेषे स्मरवह्निनाऽनुसमयं दन्दह्यमानात्मनां, भ्रातः ! सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् 224 // 9 // // 10 // // 11 //