________________ चातुर्विद्यविशारदवाचककल्याणविजयशिष्येण / एतच्छतकं निबद्धं पाचकधनविजयवरगणिना . // 108 // // 1 // // 2 // कविवरश्रीपद्मानन्दप्रणीतम् // पद्मानन्दशतकम् // त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते, जन्तूनां निजया गिरा परिणमद्यः सूक्तमाभाषते। स श्रीमान् भगवान् विचित्रविधिभिर्देवासुरैरचितो, वीतत्रासविलासहासरभसः पायाज्जिनानां पतिः यैः क्षुण्णाः प्रसरद्विवेकपविना कोपादिभूमिभृतो, योगाभ्यासपरश्वधेन कषितो यैर्मोहधात्रीरुहः / बद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वरस्तान्मोक्षैकसुखानुषङ्गरसिकान्वन्दामहे योगिनः / यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी, लक्ष्मीः प्राणसमाऽपि पन्नगवधूवत्प्रोज्झिता दूरतः / मुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं, निस्सङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः यः परवादे मूकः, परनारीवक्त्रीक्षणेऽप्यन्धः / पगुः परधनहरणे, स जयति लोके महापुरुषः आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्द्यते, दुर्गन्धेन न बाध्यते न च सदामोदेन सम्प्रीयते / स्त्रीरूपेण न रज्यते न च मृतश्वानेन विद्वेष्यते, माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः . 23 // 3 // // 4 // // 5 //