________________ कृत्वाधः पादयोर्मी निरतिशयशमश्रीसमालिङ्गिताङ्गः . स्वस्थस्तिष्ठत्यनिष्ठः कथमयमधुनेतीव संचिन्त्य सृष्टा / ऊर्ध्वं बाणाशनिर्वा मृदुहृदयभिदे भाति रागेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरति रातु स श्रीजिनो वः .: // 16 // चार्वाचारोक्तिचुचुप्रवचनचतुराचार्यचक्रस्य चञ्चनोच्येताचण्डरोचीरुचिरुचिररुचिर्यस्य वाचां प्रपञ्चैः। उच्चैश्चञ्चुर्यमाणश्चरणगुणंचयश्चारुचित्तार्चितार्चश्चेतःशौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः // 17 // पद्भ्यां भूभृद्गुरुभ्यां भ्रमति भृशमभीभ्रंशयन्हेलयायं कोऽस्मन्मू/द्धृतां गामिति फणिसमितेः साधः क्रोधवः / ज्वाला निर्यान्त्यधस्तात्किमिति सुजनता शङ्कते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलमखरुचो यस्य योगीश्वरोऽसौ // 18 // प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढात्सन्मीनात्क्षीरनीरेश्वरत इव यदज्रयोर्युगानिर्गता भा। वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदब्जश्रेणी विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु // 19 // मा पप्तत्तप्त्यभावात्कलिकलिलभराक्रान्तमत्यन्तमेतत्पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य / त्वष्ट्रावष्टम्भनार्थं प्रचुरभरसहौ निर्मिमाते यदज्री वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द्रः // 20 // दुर्गे स्वर्गापवर्गाध्वनि सदरितया स्यन्दनः सस्यदागस्तिग्मांशूत्तप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् / सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः . सिद्ध्यध्वन्यध्वनीनाववतु स मुनिपः पादपद्मो यदीयः // 21 //