________________ तन्वाना वैमतेयश्रियमहितवृषोत्कर्षमोषिप्रतापाः कामं कौमोदकीनाशरणशरणदा नीरजोदाररागाः / सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यत्क्रमाश्चक्रिणो वा भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात् // 10 // यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालौ स्वःसन्मूर्धाधिरूढोद्भटमुकुटकुटैनिर्यदंशूदभारैः / संसिक्तौ शोणरत्नप्रतिमनखरुचः सत्प्रवालावलीवद्धत्तः शुद्धि विधेयादधिकमधिपतिः श्रीजिनानामसौ वः // 11 // द्यां धुत्योद्योत्य.मुद्यड्युसदधिपमता विधुदुद्द्योतजेत्र्याविद्यानद्याद्यसद्योनय उपदधते सद्यमोद्यानमोदम् / दुर्भद्यावद्यमुद्ययुमणिमिव समाच्छाद्य नन्द्याभिवन्द्याः सद्यो यत्पादकन्दा द्यतु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् // 12 // निर्वाणापूर्वदेशप्रगमकृतधियां शुद्धबुद्ध्यध्वगानां मार्गाचिख्यासयैषा त्रिभुवनविभुना प्रेषिता किं नु लोकैः। आलोक्यारेकितैवं चरणनखभवा वो विभाविर्भवन्ती यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात् // 13 / / शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्यानुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः / प्राज्याजेयप्रतापं सततमिनतया युक्तमप्यन्यरूपं . .. युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृत्तीर्थनाथः // 14 // दूरे दूरेपसो वो वसतिमसुभृतां साधयन्तौ धयन्तौ वारी वारीतिम ii नतससुरमहादेवराजौ वराजौ। यस्यायस्याप्तिहेतू जयमुपनयतो मोहितानां हितानां दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् // 15 // . . 13