________________ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादैर्बध्नात्याय रात्रौ पुनरलिपटलैरारटन्ती रटद्भिः। मामम्भोजन्मधाम्नि स्थिततनुलतिकामेवमालोच्य लक्ष्मीरुद्विग्नेवापविघ्नं क्रमकजमगमद्यस्य सोऽव्याज्जिनो वः . // 4 // निर्विघ्नान्विघ्ननिघ्नानतिघनघृणया श्लाघ्यघोषानघोषान्घोराघौघेरनुद्धापघनसुघटिताशीघ्रमुद्धाङ्घ्रिपाणीन् / . अर्घोपघ्नाननर्घान्घटयति लघिमालिङ्गितान्वोऽलधिष्ठाश्लाघ्यं यस्याङ्घ्रियुग्मं विघटयतु घनं सोऽघसंघातमर्हन् // 5 // रक्तस्त्यक्तस्मरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः / वैकुण्ठाभ्यर्चितोऽपि प्रकटमपचिंतः पण्डितैः खण्डितांहास्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः से निर्ग्रन्थनाथ: // 6 // स्वान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्कस्तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम् / संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोजं यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः जङ्घोद्यत्स्कन्धबुध्नोद्गतलसदरुणाभाङ्गुलीपल्लवाढ्यान्प्रेवन्तीभिर्नखाचिर्निचयरुचिरसन्मञ्जरीभिर्युतान्वः / प्रेक्ष्य प्राप्तेप्सितार्थे वि बलवदवाक्कल्पवृक्षाः किमेवं विद्वद्भिः शङ्कयतेऽङ्घीनतुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु // 8 // क्षोणी क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा . मोक्षक्षेत्राभिकाङ्काः क्षपितशुभशताक्षेमविक्षेपदक्षाः / अक्षोभाः क्षीणरूक्षाक्षरपटुवचनाभिक्षवो मद्भवलक्ष्मी साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदङ्घी // 9 // // 7 // 10