________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // कुग्रहग्रहदुष्टस्य, सिद्धान्तश्रावणं तथा / अन्धस्य पुरतो दीप्रप्रदीपकरणं यथा अङ्गोपाङ्गादयो ग्रन्था, द्वादशाङ्ग्यां प्रतिष्ठिताः / गवादीनां यथा पादा, हस्तिपादे महत्तरे यत्र नीरं तत्र पङ्को, यथाऽस्ति कमलाकरे / अपवादोऽपि तत्रास्ति, यत्रोत्सर्गः, प्रवर्तते स्वयं यः सुमतिः पूर्वं, परं सिद्धान्तपारगः / नर्तकः किङ्किणीयुक्तचरणः शोभते यथा उत्सूत्रभाषकः सूत्रभाषकं बाधते तथा।। विपरीतपथः प्रायस्तस्करः पुररक्षकम् छेदग्रन्थार्थविस्तारो, न तिष्ठति हृदन्तरे।, तुच्छसत्त्ववतां यद्वत्पायसं कुर्कुरोदरे अभव्यदूरभव्यानां, चेतः स्पृशति नागमः / स्निग्धं घटं यथा तोयपूरस्तोयदसंभवः करण्डिकावृतो भानुश्छादितः किं क्वचिद्भवेत् / तथा परोक्तयुक्त्या किं, छादितः स्याज्जिनागमः ? . पानीयं को निबध्नीयात्, ग्रन्थौ वस्त्रेण कोविदः / तथा शास्त्रेषु सर्वेषु, संपूर्ण जिनभाषितम् यथा कुठारघातेन, धौतं वस्त्रं न चार्थकृत् / तथा स्वहठवादेन, दूषितं जिनभाषितम् कुधियां बधिराणां च, सभासु भगवद्वचः / व्याख्यातं निष्फलं ज्ञेयमरण्ये गीतगानवत् बालास्तु तक्रपानं जानन्ति विलोडनं न दध्नश्च / .. तद्वन्मूढाः सूत्रं जानन्ति न सूत्रपरमार्थम् 220 // 78 // // 79 // // 8 // / / 81 // // 82 // / / 83 //