________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // साधुत्वं येन संप्राप्य, निन्द्याचारः कृतः स्वयम् / धूलिक्षेप: स्वहस्तेन, हस्तिनेव स्वमस्तके यत्र पद्मं तत्र हंसा वसंन्ति मुदिताशयाः / तथैव यत्र कल्याणं, तत्र तिष्ठन्ति साधवः कर्मवैरिविनाशाय, यतते यतिपुङ्गवः / ज्ञानवान् तपसा शूरः, सिंहः सन्नाहसंयुतः कामं शरीरसत्कारो, न्यत्कार: शिववर्त्मनाम् / विहितो यतिना तेन, सुप्तः सिंहः प्रबोधित: स्वयं पठनशीलानां, शिष्याणां प्रेरणं तथा / यथा स्वयं सुजात्यानां, भारमुद्वहतां गवाम् मुमुक्षूणां हिरण्यादिरक्षणं विषभक्षणम् / न शोभते यथाऽतीवजीर्णगोर्गलघण्टिका सम्यग्गृहीते चारित्रे, लज्जायाः करणं तथा। नृत्त्ये नट्याः प्रवृत्ताया, वदनाच्छादनं यथा मुनयो यदि कुर्वन्ति, मार्गलोपं यथा तथा / वृत्तिश्चिर्भटिकानत्ति, पुरतः कस्य कथ्यते ? चारित्रं पृष्ठतः कृत्वा, लज्जया मोक्षकामना / पात्रं तु पृष्ठतः कृत्वा, तक्रार्थं गमनं तथा / मरौ सुरतरुप्राप्तिरिये निधिदर्शनम् / . कलौ च बोधिबीज़ाप्तिर्दुभिक्षे पायसाशनम् सिद्धान्तवाचनं पूर्व, व्याख्याता यत्र पण्डितः / तस्योपमानमास्थेयं, शर्करा दुग्धमिश्रिता सिद्धान्तवाचनं टीका, विना चारुतरं न हि / तस्योपमानं जानीहिं, बालकाङ्गुष्ठधावनम् 19 . // 66 // // 67 // // 68 // // 69 // // 70 // // 71 //