________________ // 48 // // 49 // // 50 // . // 51 // __ // 52 // // 53 // मर्दयित्वोदरं तेन, शूलमुत्पादितं स्वतः। . विधाय संगति मूढैः, सम्यक्त्वं मलिनीकृतम् क्षायिकसम्यग्दृष्टेर्निर्मलवृत्तेश्च मनसि न कदापि / संदेहो जिनवचने भवति श्यामत्वमिव हेम्नि कुग्रहान्मार्गमुत्सृज्योन्मार्गगामिनिबोधनम् / मृत्तिकाया घटे पक्वे, भाने कण्ठाधिरोपणम् यथा नृपसुताः क्रीडायोग्याः कार्या न दुःखिताः / जैनवेषधरा वन्द्या नैव निन्द्या बुधैस्तथा औत्सुक्येन यथा नाम्रफलपाकः क्वचिद्भवेत् / चारित्राराधनेनाशु, मोक्षः साक्षात्तथैव च संयतासंयतानां च, संयोगो गुणवर्जितः / वेश्यादिक्पटयोः सार्थ इव शोभावहः कथम् ? संयमेन वियुक्तस्य, यद्वत्साधोः क्रियाविधिः / अधो नग्नस्य मर्त्यस्य, मस्तके मौलिबन्धनम् . थूत्कृतेन यथाऽपूपकरणं न हि संमतम्। विना भावेन वेषस्य, धरणं तद्वदेव हि सूपपूपे यथाऽऽरब्धे, तैलपानस्पृहा पुरा / दीक्षायां गृह्यमाणायां, विशिष्या विषयस्पृहा भावहीने क्रिया पुंसि, पुण्यहीने सुखस्पृहा / चन्द्रज्योत्स्ना दिने यद्वच्चूडा मुण्डितमस्तके कषायविषयैर्येन, संयमः शिथिलीकृतः / तेन मुक्ताफलं विद्धं, स्थूलेन मुशलेन किम् ? ऐहिकं समतासौख्यं, त्यक्त्वा कः पारलौकिकम् / कटिस्थं तनुजं यद्वदुदरस्थं समीहते 218 // 54 // // 56 // // 57 // // 58 //