________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // पूर्वं जातिविहीनस्तदनु क्रोधान्धतां च संप्राप्तः / उष्ट्र इवावकरस्थो नीचो नालोकित: केन? ये वदन्ति दयाधर्म, हिंसाधर्म स्वशास्त्रतः / तेषां स्वमातृवन्ध्यात्ववाक्यवद् वचनं वृथा भूपतिः कुरुतेऽनीति, प्रजायाः का गतिस्तदा ? / आचार्यः कुरुतेऽकार्य, तदा शिष्यस्य का गतिः ? आराधितः शिवाय स्यात्, भवाय च विराधितः / श्रीजिनस्तेन सत्योक्ती, राजा मित्रं न कस्यचित् तपोभरे कृते नैव, सिद्धिरज्ञानिनां भवेत् / नवनीतस्य संप्राप्तिरन्धेन दधिघोलने औषधेन विना व्याधिर्गतो भाग्यानुभावतः। . कुपुत्रस्तु विनाऽऽयासं, यथा यातो गृहाद् बहिः सूर्यं प्रति रजः क्षिप्तं, स्वचक्षुषि पतिष्यति। . गुरुं प्रति कृताऽवज्ञा, सा तथा तस्य भाविनी. सद्गुरुं ये परित्यज्य, भजन्ते कुगिरं गुरुम् / / चिन्तामणि परित्यज्य, काचमाददते जडाः यद्वचो धर्मनाशाय, तद्वचो वक्ति कः सुधीः ? / यत्स्वर्णं कर्णनाशाय, यथा तत्को निषेधते ? लोकहास्यभयात् किं स्यात्, स्वकीयाचारमोचनम् ? / षट्पदीभयतो यद्वच्चीवरस्य विमोचनम् सम्यग्दृशां गता शङ्का, परेषां वदतां मिथः। शृङ्गेण शृङ्खलोत्तारोऽपरेषां युध्यतां मिथः मिथ्यादृशां क्रिया नैव, श्लाघ्या सम्यक्त्वधारिणाम् / गृहयोग्या न यात्रा सा, यथा सन्मार्गगामिनाम् // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // 21