________________ // 72 // // 73 // / / 74 // // 75 // // 76 // // 77 // कदर्याणां धनं प्रायो नान्येषामपि शर्मणे / गतो नन्दनिधीन् दृष्ट्वा कल्की कल्कपरः क्षयम् गुणैर्नायो(र्योऽ)प्यसामान्यैः पूज्याः स्युर्महतामपि / श्रीवीराभिग्रहे पूर्णे स्तुतेन्द्रेणापि चन्दना ऋद्धावपि विचारेण प्रवर्तन्ते विचक्षणाः / राज्ञीत्वेऽपि गतोत्सेकं न चित्रकरदारिका सम्प्राप्तामपि पापात्मा भोक्तुं न लभते श्रियम् / स्वर्गमत्याजयच्छक्रः सङ्गमं वीरवैरिणम् हिता(त)बुद्धया कृता पीडाऽप्यहो पुण्यप्रदा भवेत् / वैद्यौ स्वर्गं गतौ कृष्ट्वा वीरस्य श्रुतिकीलको यादृक् तादृगवस्थोऽपि गुरुर्गौरवमर्हति / / शयालु शेलकाचार्यं पन्थकोऽक्षामयन्न किम् परं कोटिगतं सत्त्वं निपुणानां मुदे भवेत् / स्तुतो देवैर्हरिश्चन्द्रश्चीराकर्षी मृताङ्गजात् प्राणान् दत्त्वापि रक्षन्ति सात्त्विकाः शरणागतम् / वज्रायुधस्तुलां श्रित्वा श्येनात् पारापतं पपौ सुबह्वपि तपस्तुच्छफलमज्ञानतः कृतम् / अन्येषां मोक्षदात्कष्टादीशाने तामलिर्ययौ / निष्कलङ्कः कृतो धर्मः स्यादल्पोऽपि महर्द्धये / इन्द्रोऽभूत् कार्तिकश्रेष्ठी सम्यक् श्रद्धानशुद्धितः दुष्कराण्यपि कुर्वन्ति कामिनः कान्तयाऽथिताः / एकस्तम्भं व्यधात्सौधं श्रेणिकश्चेल्लणाकृते नर्ते प्राप्यं महत्पुण्यं लोभः स्यात्सहसा महान् / यज्जिनो बोद्धमेत्यश्वं जिनार्चाफलमेव तत् // 78 // .. // 79 // // 80 // // 81 // // 82 // // 83 // 211