________________ दृढशीलसमृद्धीनां स्वयं तुष्यति देवता। पश्य जम्बूगुणैर्देव्याः प्रभावः प्रा(प्र)भवो हृतः // 12 // त्यजन्त्यनार्यकर्म द्राक् कुलीनाः प्रेक्ष्य बोधिदम् / / बुद्धो जम्बूप्रभोर्वाचा प्रभवः किं न चौरराट् // 13 // विना यत्नं महापुण्यप्राप्तिः कस्याप्यहो भवेत् / पायसं संगमः काप संगमः क्व मुनेरभूत् . // 14 // सत्कृतं सुकृतं कुर्यादल्पस्यापि महत्फलम् / किं नातं(प्तः) शालिभद्रेण शालिभद्रेण वैभवम्(व:) // 15 // दानं देवैरपि श्लाघ्यं वेलादत्तं विशेषतः / / स्मृत्वा दानं ददौ राज्यं मूलदेवाय देवता न त्यजन्ति दुरात्मानः स्वभावं भाषिता अपि / कालसूकरिकः कूपे क्षिप्तोऽप्यौज्झत्कथं वधम् // 17 // स्वयं(स्वं) कष्टे पातयित्वापि प्राज्ञः पापानिवर्तते / कुठारेणांहिमाजघ्ने कि नोज्झन् सुलसो वधम् // 18 // स्फुरन्ति मोहराजस्य मुनीन्द्रेष्वपि केलयः / मुञ्चत्यश्रूणि दिष्ट्यान्ते सूनोः शय्यम्भवोऽपि यत् // 19 // दूषयन्ति निजां सन्धां कलयापि न सात्त्विकाः / मोदकान् कृष्णलब्ध्याऽऽप्तान् पर्यस्थापयदाच्युतिः // 20 // सर्वस्यापि समो धर्मो नान्वयं सन्तमीक्ष्यते / तत्कुलं नन्दिषेणस्य पुण्योत्कर्षश्च तादृशः // 21 // कुलीना व्रतभङ्गेऽपि हितमेवाचरन्त्यहो / दश बोधितवान्नित्यं नन्दिषेणोऽवकीर्ण्यपि // 22 // सुचिरं परिपाल्यापि विफलं व्रतमुज्झितम् / पश्याधः कण्डरीकोऽगात्ततो दीर्घतपा अपि . // 23 // 206