________________ महद्भिस्तुलनामिच्छन्ननात्मज्ञो विनश्यति / स्पर्द्धया स्थूलभद्रस्य पश्य यन्मुनिरन्वभूत् .. वृथा वाग्विहितो यत्नः कर्म भुक्तं विलीयते / भेजे तथात्तदीक्षोऽपि भामिनी मुनिराईकः // 25 // बलिष्ठैरपि दुर्लध्या तुच्छापि स्नेहशृङ्खला / तस्थौ किं नार्द्रको नद्धः श(शिशुना तर्कुतन्तुभिः // 26 // निःसङ्गैरपि नोपेक्ष्या शासनस्य तिरस्क्रिया / वज्रस्वाम्यपि पुष्पौघमानिनायाऽन्यथा कथम् // 27 // यन्न बुद्ध्यापि सम्भाव्यं धर्मात्तदपि जायते / प्रोद्धृतं पश्य चालिन्या कूपादम्भः सुभद्रया // 28 // किं पुत्रैरर्थितैरेकैः श्रिये साध्व्यः सुता अपि / सतीमतल्लिकाः पुत्र्यः पुपुवुश्चेटकान्वयम् // 29 // अयत्नात्तत् कदापि स्यात् यत्कष्टैरपि नो भवेत् / गौतमानुगमादेव दिन्नाद्यैः प्राप्ति केवलम् . // 30 // दर्शनादपि पूज्यानां जायते पुण्यसन्ततिः / / हालिको गौतमालोकादभवत् बोधिबीजभाक् // 31 // यत्र कुत्राप्यसम्भूतं दैवात्तदपि जायते / क्षिप्ता स्रक् कृष्णया जिष्णौ ववे पञ्चाऽपि पाण्डवान् // 32 // प्रायः पापैर्न लिप्यन्ते सदाचाराः कृतैरपि / / तद्भवेऽपि स्म सिध्यन्ति बन्धुघातेऽपि पाण्डवाः न लवन्ते सदाचाराः स्वाम्यर्थेऽपि स्वकं वचः / कृत्वा कौरवसाद्राज्यं प्रावात्सुः पाण्डवाः स्युः (वने) // 34 // अवाक्प्रतिष्ठाशीलानां ध्रुवं नाशो धनायुषोः / काले राज्यममुञ्चन्तो विलीनाः किं न कौरवाः // 35 // 200