________________ // 2 // // // // 5 // // दृष्टान्तशतकम्-२ // देवा भाग्यवतां पक्षे प्रायो धार्मिकलोकतः / चक्रे कोणिकसान्निध्यं चेटकस्य न कौशिक: रक्षकेष्वपि देवेषु क्रूरकर्म विजृम्भते / श्रुत्योः कीलव्यथाः वीर: सेहे किं न सुरार्चितः स्पर्द्धया धर्मकृत्यानि महान्तोऽपि प्रकुर्वते / दृष्ट्वा दशार्णभद्रद्धिमिन्द्रोऽप्यागात् तथा जिनम् व्यापत्तापे कृपास्नेही महतामपि नश्यतः / कान्तां तथा हि कान्तारे राज्यभ्रंशे नलोऽत्यजत् महतामप्यहो राज्यतृष्णा मुष्णाति सन्मतिम् / स्वभ्रातुर्भरतोऽप्युच्चैश्चकं चिक्षेप सन्मुखम् वैराग्यं जनयत्याशु बन्धुजा विक्रिया सताम् / बुद्धो बाहुबलिर्बुद्ध्वा भ्रातरं भ्रान्तसन्मतिम् दृष्ट्वा बलवती पृष्टिमल्पोऽप्यारभते महत् / ययौ किं चमरो नेन्द्रसभां श्रीवीरनिश्रया कोपाटोपात्कृतेऽप्यार्थे विमृशन्ति महाधियः / संजहार पवि शको सुरं ज्ञात्वा जिनाद् दृढम् अदत्तेऽपि फलं भावाद्विफलं भाववर्जितम् / ' नवश्रेष्ठि(ष्ठी) ददौ दानं जीर्णस्तु फलभागभूत् क्षान्त्या तुष्यन्ति तत्त्वज्ञास्तपसापि न तां विना / हित्वा सेान् मुनीन् देव्या नेमे क्षान्तिधनो मुनिः गिरां दूरेऽस्तु चित्तस्याप्यत्याज्यो निश्चयः सताम् / व्युत्सर्ग नामुचत् दीप्रे दीपे चन्द्रावतंसकः . . . 205 // 6 // // 7 // // 8 // // 9 // // 10 //