________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // गुणिनोऽपि गुणाधानं कदापि स्यादवस्तुतः / विनाम्लतकनिक्षेपान दुग्धं दधि जायते दृश्यते महतां पङ्क्तौ जनैस्तुच्छोऽपि कार्यतः / किं न विन्यस्यते दक्षैर्नाणकान्तः कपर्दिका षण्ढेऽप्यर्थप्रदे पुंसि ध्रुवं रज्यन्ति योषितः / नपुंसकमिदं श्रीदं दृष्ट्या कज्जलमादृतम् समं भ; कुलीनस्त्री सुखदुःखे विगाहते / वृद्धि वित्प(प)दमप्येति नदेन सह पद्मिनी दुर्जनैर्दूषिता राजत्यधिकं काव्यपद्धतिः / लूकाझलकितं चूतं युज्यते पाकसम्पदा प्रथमं स एव साध्यो यद्बलतो रिपुरुपद्रवं कुरुते / दशवदननिधनमतिना रघुपतिना जलनिधिरबन्धि ईषल्लघुप्रवेशोऽपि स्नेहविच्छ(च्छि)त्ति पण्डितः / कृतक्षोभो नरीनति खलो मन्थानदण्डवत् ........रसायनं यस्याः प्रयोगे पूर्वपुरुषाः / मृता जीवन्ति जीवन्तः पुनः स्युः कीर्तिपीवराः महानाय महतामप्यसाधुसमागमः / पश्य रावणसंसर्गात् बन्धमाप पयोनिधिः स्वान्ययोरुपकारी स्याद् ध्रुवं नीचः सदाश्रयः / वर्णाश्रया सखी स्वं च पत्रं च कुरुतेऽर्चितम् लक्ष्मीरसायनाभावे ये मृताः खलु ते मृताः / ये जीवन्ति पुनस्ते स्युर्जीवन्मृतसहोदरा: सदलाभे कलौ काले श्री: खेलति खलेषु यत् / ततो मन्ये निराधारा न नारी वर्तितुं क्षमा . 201 // 67 // // 68 // // 69 // // 70 // // 71 //