________________ // 40 // स्वार्थसंसिद्धये या महत्ताऽतिलघोरपि / तृणाय पाणी युज्येते भक्तान्ते दन्तशुद्धये // 36 // कुटिलस्य श्रियः प्रायो जायन्ते कष्टवेष्टिताः / विना वेधव्यथां कर्णैः स्वर्णाशोऽपि न लभ्यते // 37 // उद्वेगकारिणः क्रूराः सह संवासिनामपि / एकास्यस्थाः समीहन्ते दशना रसनाग्रहम् // 38 // मलिनान्निर्मले नाशो निर्मलात् मलिने गुणः / पूणिकागुणकृत्तर्कोस्तर्कुस्तस्याः क्षयङ्करी . // 39 // अकर्मण्यपि मर्मज्ञे विफलो विक्रमश्रमः / लब्धच्छिद्राणि सिक्थानि चर्व्यन्ते न रदैरपि नीचोऽपि स्फूर्तिविख्यातः सेव्यः श्रेष्ठोऽपि नापरः / तोषरोषक्षमाः ख्याताः पादा वन्द्यास्तु नो शिरः // 41 // दुष्टपुत्राचरणतः पितुः स्यान्मानमर्दना / कस्य न क्षालयत्यंहीन् पङ्कविच्छुरितान् पयः // 42 // समारचयति प्रायो पिता पुत्रविनाशितम् / . जलेन क्षाल्यते सर्व पङ्कन मलिनीकृतम् // 43 // दुष्टः प्रविष्टमात्रोऽपि विपाटयति शिष्टहत् / सौवीरान्तर्गते क्षीरे विशीर्यंत सहस्रधा ... // 44 // परि(र)वित्तव्ययं वीक्ष्य खिद्यन्ते नीचजातिकाः / न शुष्यति यवासः किं वारि व्ययति वारिदे // 45 // महान्तो ये महान्तस्ते परैश्चेदपमानिताः / अहो मुखे मिखी(सी)दानादपि दृष्टिः प्रसीदति // 46 // आस्तां सचेतने रागो दुःखं निश्चेतनेऽपि तत् / खण्डनक्षारनिक्षेपपदक्षोदैः कुसुम्भवत् // 47 // 199