________________ तणजलतरुपुत्रं वाहसुन्नं पि स्नं, भण हरिणकुलाणं केरिसं केरिसं नो? प्रलयपवनवेगप्रेरणात् कीदृशेऽब्धौ, सतततदधिवासं व्यूढमैक्षं तकं वा? को धर्मः स्मृतिवादिनां? दधति के द्विःसप्तसंख्यामिह ?, प्रार्थ्यन्ते च जनेन के भवभवाः? पुंसां श्रियः कीदृशः ? / के वाऽभ्रङ्कषकोटयः शिखरिणां रेजुस्तथा कांश्चन, श्रीरस्मानजनिष्ट नाङ्गजमिति प्रोक्तान् वदेत्किं स्मरः? // 157 // . पाके धातुरवाचि कः ? क्व भवतो भीरो ! मनः प्रीतये ?, सालङ्कारविदग्धया वद कया रज्यन्ति विद्वज्जनाः ? / पाणौ किं मुरजिबिभर्ति ? भुवि तं ध्यायन्ति वा के सदा?, के वा सद्गुरवोऽत्र चारुचरणश्रीसुश्रुता विश्रुताः ? // 158 // कः स्यादम्भसि वारिवायसवति ? क्व द्वीपिनं हन्त्ययं ?, लोकः (क) ? प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः ? / ब्रूते पालयिताऽत्र ? दुर्धरतरः कः क्षुभ्यतोऽम्भोनिधे-? ब्रूहि श्रीजिनवल्लभस्तुतिपदं कीदृग्विधाः के सताम् ? // 159 // प्रत्येकं हरिधान्यभेदशशिनः पृच्छन्ति किं लुब्धक?, त्वं प्राप्तं कुरुषे मृगव्रजमथो खादद्गृहीताऽवदत् / कीदृग्भाति सरोऽर्हतश्च सदन ? किं चाल्पधी प्नुवन्, पृष्टः प्राह ? तथा च केन मुनिना प्रश्नावलीयं कृता? // 160 // किमपि यदिहाश्लिष्टं क्लिष्टं तथा विरसं क्वचित, प्रकटितमथाऽनिष्टं शिष्टं मया मतिदोषतः / तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि // 161 // 15