________________ // 2 // // 4 // अज्ञातकर्तृकम् // दृष्टान्तशतकम् -1 // तेजोऽत्युग्रमपि द्रव्या-भावे पुंसां प्रणश्यति / वह्निश्चण्डप्रतापोऽपि भस्म स्यादिन्धनक्षये वृद्धानामथावज्ञा स्यादत्यासन्नापदामिह / पूर्णोऽथारात्कलपा(पे)तो राकेन्दुः केन वन्द्यते सापवादः समृद्धोऽपि प्रायोऽवज्ञायते जने / पूर्णेन्दुः किं तथा वन्यो निकलङ्को यथा कृशः सत्कृत्यस्तोकमस्तोकं प्रार्थ्यतेऽतिनवः प्रभुः / नवेन्दुः पोतभक्तानि तन्तुनाभ्यर्च्य याच्यते . सर्वस्य मुष्यतेऽवश्यं परपीडाकृतोऽजितम् / मन्थान्म्रक्षणमुघृष्य गृह्यते दधिमन्थकात् श्रीमतां दम्पतीधर्मे नेा कापि परस्परम् / श्रीपतिर्यो पिकासक्तो मूर्षासक्ता हरिप्रिया .. श्रीमतादृतमश्रेष्ठमपि श्रेष्ठं न दुःस्थितैः / शङ्खोर्व्यः श्रीपतेः पाणौ कपालं न कपालिनः छद्मात्तं महतां वित्तं याति प्राणैः समन्वितम् / विदार्योदरमाकृष्टा वेदाः शङ्खस्य विष्णुना केचित्पिबन्ति पानीयमपि नारीनिरूपितम् / दशामुखापितं पश्य प्रदीपः स्नेहमश्नुते कस्याप्यशर(सदृ)शोऽपि स्याद्रामासौभाग्यमद्भुतम् / स्वाङ्गे निवेश्यते स्त्रीभिरातन्यतेऽन्यकञ्चकः वीरस्यापि वणिक्सार्थे क्षुद्रात् भवति गञ्जना / / शूरोऽपि सोमपार्श्वस्थो राहुणा गिलितो न किम् 16 // 7 // // 8 // // 9 // // 10 //