________________ कान्तन्यस्तपदं स्तने रमयति स्त्री किं विधिर्वक्त्यदः, कि अन्नोन्नविरोहवारणकए जंपंति धम्मत्थिणो // 88 // खड्गश्रियोर्यमब्रवीत्, प्रश्न मुनिः किल स्वकम् / उत्तरं प्राप तत्रैव, कामेसिसेविषायते // 89 // कीडग्भवेत्करजकर्तनकारि शस्त्रं?, क्वाकारि किं रहसि केलिकलौ भवान्या? / कश्चित्तरुः प्रवणयश्च पृथग्विबोध्यौ, किं वा मुनिर्वदति बुद्धभवस्वभावः ? // 90 // कुमुदैः श्रीमान् कश्चि-द्गदपात्रं प्रश्नमाह यं भूमेः। तत्रैवोत्तरमलभत्, कैरवनिवहैरमामत्र // 91 // सदाहिताग्नेः क्व विभाव्यते का?, प्रावृष्युपास्ते शयितं क्व का कम् ? / दीर्वक्षणा वक्ति पुरःस्थिताऽप्यहमवीक्ष्यमाणा प्रिय ! किं करोमि कम्? लक्ष्मीर्वदति बलिजितं, त्वमीश ! किं पीतमंशुकं कुरुषे ? / अपरं पृच्छामि प्रिय !, किं कुर्वेऽहं भवच्चरणौ.? // 93 // प्रवीरवरशू(सूोदकं किल जगुर्जनाः कीदृशं?, पयो वदति कीदृशीं नृपतति श्रयन्त्यर्थिनः ? / चकार किमगं हरिर्वदत विस्मये किं पदं ?, निनीषुरमृतास्पदं कथमिहाह जैनो जनान् ? .. // 94 // का दुरितासढूषण-सान्त्वक्षतिभूमिरिति कृते.प्रश्ने। यत्तत्संमानवर्णं त-दुत्तरं कथयत विभाव्य // 95 // हंहो शरीर कुर्याः, किमनुकलं त्वं वयोबलविभाद्यैः ? / मदनरिपोईक्कीह-ग्जैनः कथमुपदिशति धर्मम् ? // 96 // विधत्से कि शत्रून् युधि नरपते ! वक्ति कमला?, वराश्वीयं कीहक् ? क्व च सति नृपाः स्युः सुमनसः ? / - 180