________________ अयि सुमुखि ! सुनेत्रे ! सुभ्र ! सुश्रोणि ! मुग्धे !, वरतनु ! कलकण्ठि ! स्वोष्ठि ! पीनस्तनि ! त्वम् / वद निजगुणपाशैः किं करोषीह केषां?, सुगुरुरपि च दद्यात्कीदृशां मन्त्रविद्याम् ? . : // 8 // पृच्छामि जलनिधिरहं, किमकरवं सपदि शशधराभ्युदये ? / अलमुद्यमैः सुकृतिना-मृित्युक्ते कीदृशः कः स्यात् ? ' // 81 // वदति हरिरम्भोधि पाणिं श्रियः करवाणि कि?, किमकुरुत भो यूयं लोकाः सदा निशि निद्रया ? / मुनिरिह सतां वन्द्यः कीदृक् तथास्मि गुरुर्बुवे?, तव जडमते ! तत्त्वं भूयोऽप्यहं किमचीकरम् ? // 82 // रतये किमकुर्वातां, परस्परं दम्पती चिरामिलितौ। मोक्षपथप्रस्थितमतिः परिहरति च कीदृशी जनताम् ? // 83 // हे नार्यः ! किमकार्षुरुद्गतमुदो युष्मद्वराः काः किल ?, क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया ? / इच्छुर्लाभमहं मनोगृहगतं रक्षामि शम्भुं सदाऽपीति स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति ? // 4 // सरभसमभिपश्यन्ती, किमकार्षीः कं मम त्वमिन्दुमुखि ! ? / नयनगतिपदं कीहक्, पूजयतीत्यर्थमभिधत्ते? // 85 // विधुन्तुदः प्राह रविं ग्रहीतुं, कीहक्षमाहुः स्मृतिवादिनो माम् ? / का वा न दैवज्ञवरै स्तुतेह, प्रायेण कार्येषु शुभावहेषु? // 86 // अग्निज्वालादिसाम्याय, यं प्रश्नं श्रीरुदीरयेत् / तेनैव समवर्णेन, प्रापदुत्तममुत्तरम् / // 87 // कीहक्षोऽहमिति ब्रवीति वरुणः ? काप्याह देवाङ्गना, हंहो लुब्धक ! को निहन्ति हरिणश्रेणी वनान्याश्रिताम् ? / 187