________________ विहङ्गः स्यात्कीहक् ? क्व रजति रमा पृच्छति हरप्रतीहारी ? भीरो किमिह कुरुषे ब्रूत मदनम् ? // 97 // कीदृग्भाति नभो ? न के च सरुजां भक्ष्या? नृपः पाति कं ?, वादी पाशुपतो विवाद उदयदुःखः शिवं वक्ति किम् ? / निर्दम्भेति यदर्थतः प्रणिगदेद्रूपं विपूर्वाच्च तत्, मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ? // 98 // स्मृत्वा पक्षिविशेषेण जग्धं कमपि पक्षिणम् / वृष्णिवंशोद्भवो लक्ष्मी-मप्राक्षीत् किं समोत्तरम् ? // 99 // प्रपञ्चवञ्चनचणं, ध्यात्वा कमपि देहिनम् / विश्वम्भरा यदप्राक्षी-त्ततः प्राप तदुत्तरम् // 10 // जात्यतुरगाहितमतिर्लक्ष्मीपतिमप्सरो विशेषपतिः / यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं प्रापत् // 101 // केन केष प्रमोदः स्या-दिति पृच्छन्ति केकिनः / संगीतके च कीदृक्षाः, प्राह शम्भुर्न भान्ति के ... // 102 // कश्चिदैत्यो वदति दनुजान् घ्नन् हरे! किं किमाधाः ?, शक्रात्प्राहुः पृथगुदधिजाकान्तवैवस्वतान्ताः / / क्षिप्तः कश्चित् किल ललनया मन्मथोन्माथदुःस्थः, सख्या चख्ये कथमथ मन:खेदविच्छेदहेतोः // 103 // जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः / सध्रीची यदपृच्छत्तदुत्तरं प्राप तत एव ||104 // देवीं कमलासीना-मन्तकचिरनगररक्षकः स्मृत्वा। . यदपृच्छत्तत्रोत्तर-मवाप कालीयमानवपुरत्र // 105 // सैन्याधिभूरभिषिषेणयिषुस्त्वदीयः, किं किं करोति विजयी नृपते ! हठेन ? / 188