________________ // 41 // दृष्ट्वाग्रतः किल कमप्यवसादवन्तं, स्वामी पुरः स्थितनरं किमभाषतैकम् ? / कश्चिद् ब्रवीत्ययि जिगीषुनृपा अकार्षीत्, किं कीदृशो वदत राजगणोऽत्र केषाम् ? सीरी पाणि क्व धत्ते ? कतुरथ मुदगात्स्यात्कया देहिनां भीबूंतेऽश्वः क्वारि विष्णुळधृत सविधगं हन्तुकामः किमाह ? / शम्भुं घ्नन्तं गजं द्राक् सदय ऋषिरगात् किं तु काक्वा तथास्मिन्, हारं किं नापिधत्से ? विरहिणि नभसीत्यूचुषी सा वदेत् किम् ? 42 मधुरिपुणा निहते सति, दनुजविशेषे तदनुगता: किमगुः? / अभिदधते च विदग्धाः, सत्कवयः कीदृशीर्वाचः? // 43 // ब्रूते पुमान् मुरजिता रतिकेलिकोपे, सप्रश्रयं प्रणमता किमकारि का कम् ? / दुःखी सुखाय पतिमीप्सति कीदृशं वा ?, कामी कमिच्छति सदा रतये प्रयोगम् ? // 44 // यूयं किं कुरुत जनाः, स्वपूज्यमिति शिल्पिसुतखगौ ब्रूतः।। स्मरविमुखचित्तजैनः, कथमाशास्ते जनविशेषम् // 45 // सुभटोऽहं वच्मि रणे, रिपुगलनालानि केन किमकार्षम् ? / चेटीप्रियो ब्रुवेऽहं, किमकरवं काः स्वगुणपाशैः ? // 46 // भूषा कस्मिन् सति ? स्यात्कुचभुवि मदिरा वक्ति ? कुत्रेष्टिकाः स्युः?, कस्मिन् योधे जयश्रीयुधि ? सरति रतिः प्रांजने कुत्र नोक्ष्णः ? / कामद्वेषी तथोडुर्वदति दधि भवेत् कुत्र ? किं वा वियोगे, दीर्घाक्ष्याः ? कोऽपि पीनस्तनघनघटितप्रीतिरन्यं ब्रवीति // 47 // किं कुर्याः ? कीदृक्षौ, रागद्वेषौ समाधिना त्वमृषे!। कीदृक्षः कक्षे स्यात्, किल भीष्मग्रीष्मदवदहनः // 44 // // 48 //