________________ भवति चतुर्वर्गस्य, प्रसाधने क इह पटुतरः प्रकटः? / पृच्छत्यङ्गावयवः कः, पूज्यतमस्त्रिजगतोऽपि ? . // 33 // वैदिकविधिविशस्तबस्तामिषमदतां स्वर्गदं द्विजं, जैनादिः किमाह साक्षेपं सासूयं सकाकु च? कीहक् / पूतवातपरितापम्लेच्छोपास्तिनुतिगृहक्रीडाहोमविश्ववेगवतो जल्पति पवदनदंपदम् ? . // 34 // औषधं प्राह रोगाणां, मया कः प्रविधीयते। जामातरं समाख्याति, कीदृशो बठरध्वमिः ? // 35 // अग्रे गम्येत केन ? प्रविरलमसृणं किं प्रशंसन्ति सन्तः ?, . पाणिब्रूते जटी कं प्रणमति ? विधवा स्त्री न कीहक् प्रशस्या? / वक्ति स्तेनः क्व वेगो? रणभुवि कुरुतः किं मिथः शत्रुपक्षावुद्वेगावेगजातारतिरथ वदति स्त्री सखीं कि सुषुप्सुः? // 36 // व्यथितः किमाह सदयः, क्षितकं क्षुत्क्षामकुक्षिमुवीक्ष्य ? / दारुणधन्वनि समरे, कीहक्कातरनरश्रेणिः ? .. // 37 // चन्द्रः प्राह वियोगवानकरवं किं रोहिणी प्रत्यहं ?, शम्भोः केन जवाददाहि सरुषा कस्याङ्गयष्टिः किल ? / शीघ्रं कैः पथि गम्यते?ऽथ कमला ब्रूते मुहुर्वल्लभं, ध्यानावेशवशादलाभि पुरतः कैर्वैश्वरूपं मम? // 38 // गुरुरहमिह सर्वस्याग्रजन्मेति भट्ट, समदममदयिष्यन् कोऽपि कुप्यन् किमाह ? / त्वमलदयपदं वा आश्रयाभावमूर्छाकटकनगविशेषान् कीदृगामन्त्रयेत ? // 39 // कीदृग्मया सह रणे, दैत्यचमूरभवदिति हरिः प्राह ? / . लोको वदति किमर्थं ?, का विदिता दशमुखादीनाम् ? // 40 // 180