________________ भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः?, सुरेन्द्राणां कीदृग् भवति जिनकल्याणकमहः ? // 25 // प्राह द्विजो गजपतेरुपनीयते का?, पात्री प्रभुश्च जिनपतिवाचि कीहक् ? / कीदृग्विधेह वनिता नृपतेरदृश्या ?, प्रस्थास्तुविष्णुतनुरेक्षत कीदृशी च? // 26 // वदति विहगहन्ता क: प्रियो निर्धनानां ?, भणति नभसि भूतः कीदृशः स्याद्विसर्गः ? / वदति जविनशब्दः कीदृशः सत्कवीन्द्राः ?, कथयत जनशून्यं कज्जलं भर्त्सनं च? // 27 // वीतस्मरः पृच्छति कुत्र चापलं स्वभावजं ? कः सुरते श्रियः प्रियः ? सदोन्मुदो विन्ध्यवसुन्धरासु क्रीडन्ति काः कोमलकन्दलासु ? // 28 // मूषकनिकरः कीदृक्, खलधान्यादिधामसु?। . भीरुः संभ्रमकारी च, कीदृगम्भोनिधिर्भवेत् ? . // 29 // किं लोहाकरकारिणामभिमतं ? सोत्कर्षतर्षातुराः, किं वाञ्छन्ति हरन्ति के च हृदयं दारिद्र्यमुद्राभृताम् ? / स्पर्धावद्भिरथाहवेषु सुभटैः कोऽन्योऽन्यमन्विष्यते ? जैनाज्ञारतशान्तदान्तमनसः स्युःकीदृशा साधवः ? // 30 // पापं पृच्छति विरतौ, को धातुः ? कीदृशः कृतकंपक्षी ? / उत्कण्ठंयन्ति के वा, विलसन्तो विरहिणीहृदयम् ? // 31 // केनोद्वहन्ति दयितं विरहे तरुण्यः ?, . प्राणैः श्रिया च सहितः परिपृच्छतीदम् / तार्थ्यस्य का नतिपदं ? सुखमत्र कीहक् ?, किं कुर्वताऽन्यवनितां किमकारि कान्ता ? // 32 // - 179