________________ नाभ्यम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः पत्युपदेशनं कथमथो पत्नीष्यते कीदृशी ? / इत्याख्यत् कमला तथाकलियुगे कीहक्कुराज्यस्थितिः, : कीदृश्याऽहनि चण्डभास्करकरेनक्षत्रराज्याऽजनि? . // 17 // प्रभुमाश्रित्य श्रीदं, किमकुर्वन् के कया समं लक्ष्मि ! ? / कह केरिसया के मरण-मुवगया लुद्धयनिरुद्धा? // 18 // वसुदेवेन मुररिपुर्यैहिँसाहेतुतां श्रियां पृष्टः / तेणं तेहिं चिय अक्खरेहिँ से उत्तरं सिटुं // 19 // किं प्राहुः परमार्थतः कमृषयः ? किं दुर्गमं वारिधे विद्या:कं न भजन्ति ? रागिमिथुनं कीदृक्किमर्थं स्मृतम् ? / रक्षांसि स्पृहयन्ति किं ?, तनुमतां कीहक् सुखार्थादिकं ?, कीदृक्कएकलोकहर्षजनकं न व्योम वर्षास्वपि? // 20 // अभिसारिकाह कांश्चित्तरुणा:किं कुर्वतेऽत्र कं कस्याः ? / रतिसागरे मृगदृशः, किं किमकार्षीत्कथं कामी ? // 21 // कामाः प्राहुरुमापते ! तव रुषः प्रागत्र कीदृग् सती, का केषां किमकारि वारितनुदे रत्या स्वचेतो मुदे / पश्चादुद्भवजानुसंभवनरान् दैत्यान्त्यदंष्ट्राङ्गजान्, ' मन्दं च क्रमशो मुजध्वनिरगात् कीहक् क्वकस्मिन्सति // 22 // जलस्य जारजातस्य, हरितालस्य च प्रभुः / मुनियँ प्रश्नमाचष्टे, तत्रैव प्रापदुत्तरम् // 23 // ब्रूते पुमांस्तन्वि! तवाधरं कः ?, क्षिणोति को वा मनुजवजच्छित् ? / प्रिये ! स्वसान्निध्यमनभ्युपेते, किमुत्तरं यच्छति पृच्छतः श्री: ? 24 किमिष्टं चक्राणां वदति बलमर्क: किमतनोत् ?, जिनैः को दध्वंसे ? विरहिषु सदा कः प्रसरति ? / 108