________________ यत्रैवाहितधीः पुंसः, श्रद्धा तस्मान्निवर्त्तते / यस्मानिवर्तते श्रद्धा, कुतश्चित्तस्य तल्लयः / // 96 // भिन्नात्मानमुपास्यात्मा, परो भवति तादृशः / वर्तिीपं यथोपास्य, भिन्ना भवति तादृशी // 97 // उपास्यात्मानमेवात्मा, जायते परमोऽथवा / मथित्वात्मानमात्मैव, जायतेऽग्निर्यथा तरुः // 98 // इतीदं भावयेन्नित्य-मवाचागोचरं पदम् / स्वत एव तदाप्नोति यतो नावर्तते पुनः // 99 // अयत्नसाध्यं निवार्णं चित्तत्वं भूतजं यदि / अन्यथा योगतस्तस्मान्नदुःखं योगिनां क्वचित् // 100 // स्वप्ने दृष्टे विनष्टेऽपि, न नाशोऽस्ति यथात्मनः।। तथा जागरदृष्टोऽपि, विपर्यासो विशेषतः // 101 // अदुःखभावितज्ञानं, क्षीयते दुःखसंनिधौ / तस्माद्यथाबलं दुःखै-रात्मानं भावयेन्मुनिः // 102 // प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात् / वायोः शरीरयन्त्राणि, वर्तन्ते स्वेषु कर्मसु . // 103 // तान्यात्मनि समारोप्य साक्षाण्यास्ते सुखं जडः / त्यक्त्वारोपं पुनर्विद्वान्, प्राप्नोति परमं पदम् // 104 // मुक्त्वा परत्र परबुद्धिमहंधियं च, संसारदुःखजननी जननाद्विमुक्तः। ज्योतिर्मयंसुखमुपैति परात्मनिष्टस्तन्मार्गमेतदधिगम्यसमाधितन्त्रम्॥१०५॥ ૧પ૦