________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // अव्रतानि परित्यज्य, व्रतेषु परिनिष्ठितः। . त्यजेत्तान्यपि संप्राप्य, परमं पदमात्मनः यदन्तरर्जल्पसंपृक्तमुत्प्रेक्षाजालमात्मनः / मूलं दुःखस्य तन्नाशे, शिष्टमिष्टं परं पदम् अव्रती व्रतमादाय, व्रती ज्ञानपरायणः / परात्मज्ञानसंपन्नः, स्वयमेव परो भवेत् लिङ्गं देहाश्रितं दृष्ट, देह एवात्मनो भवः / न मुच्यन्ते भवात्तस्मात्ते ये लिङ्गकृताग्रहाः जातिदेहाश्रिता दृष्टा, देह एवात्मनो भवः / न मुच्यन्ते भवात्तस्मात्ते, ते जातिकृताग्रहाः जातिलिङ्गविकल्पेन, येषां च समयाग्रहः / तेऽपि न प्राप्नुवन्त्येव, परमं पदमात्मनः यत्त्यागाय निवर्तन्ते, भोगेभ्यो यदवाप्तये / प्रीतिं तत्रैव कुर्वन्ति, द्वेषमन्यत्र मोहिनः अनन्तरज्ञः संधत्ते, दृष्टिं पङ्गोर्यथान्धके। . संयोगादृष्टिभङ्गेऽपि, संधत्ते तद्वदात्मनः दृष्टभेदो यथा दृष्टि, पङ्गोरन्धे न योजयेत् / तथा न योजयेद्देहे, दृष्टात्मा दृष्टिमात्मनः सुप्तोन्मत्ताद्यवस्थेव, विभ्रमोऽनात्मदर्शिनाम् / विभ्रमाऽक्षीणदोषस्य, सर्वावस्थात्मदर्शिनः विदिताशेषशास्त्रोऽपि, न जाग्रदपि मुच्यते / देहात्मदृष्टिञ्जतात्मा, सुप्तोन्मत्तोऽपि मुच्यते यत्रैवाहितधीः पुंसः, श्रद्धा तत्रैव जायते / यत्रैव जायते श्रद्धा, चित्तं तत्रैव लीयते 156 // 90 // // 91 // // 92 // // 93 // // 94 // // 95 //