________________ // 98 // दशमो यतिधर्मः शीलं रत्नं हरति धनवच्छोकदारिद्रयवह्नि, शीलं मन्त्रं स्मरफणिविषं चौषधीवद्भिनत्ति / शीलं वजं खनति नगवन्मोहशत्रु समर्थं, शीलं चक्रं चरणनगरं रक्षति शुद्रभीतेः शीलं सौभाग्यधाम प्रबलशुचियशोदिक्पथोल्लङ्घनाश्वः, स्वाहाभुक्कल्पवृक्षोपचयततिकरं सिद्धिसोपानरूपम् / सच्चारित्रद्रुबीजं भवभयतटिनीभत्रगस्त्यास्यभूतं, प्रोत्सृज्योन्मादकंन्थां मणिचितवसनं स्वीकुरु ब्रह्मचर्यम् शिवगृहशिरोगेहारोहे वरा त्वधिरोहिणी / त्रिभुवनकृतस्थानासूनां वशीकरणं ध्रुवम् समवसरणश्रीवासाम्भोजमात्मसर:स्थलं / दशमसुशमिश्रेयोधर्मोऽस्त्यमैथुननामकः नुदति मदगदौघ राति शौर्यं त्वमोघं; गमयति च दिगन्तं स्वैरिणी कीर्तिकान्ताम् / रमयति निजलक्ष्मी स्वाङ्गणे रागिणीं वः, प्रथयति गुणराशि शीलमानं जनानाम् // 99 // // 100 // // 101 // ग्रन्थप्रशस्तिः श्री आनन्दाभिधाना विमलपदभृतः सत्तपागच्छसूर्या स्तेषां चन्द्रः पदेऽभूद्विजयपदधरो दानसूरीश्वरश्च / श्रीमद्धीराभिधानः पुनरपि सविता चोद्गतो ध्वान्तलोपी, साहिश्रीअक्बरेण प्रकटितमहिमा दुर्जनाम्भःप्रणाशात् // 102 // . 120