________________ नय मनः स्ववशं हर दुर्मति, जिनमते सनये.तनु धीषणाम् / भज जिनेश्वरपादसरोरुहं, भुवि न चेतन ! शौचमतः परम् // 92 / / अनन्तभवचक्रजभ्रमणतो बहुद्रव्यजा, व्यधायि शुचिता मयोदधिसरित्सरोऽम्भोऽन्तरे। विनेन्द्रियदमं मनोनियमनं च नाभूत्कदा, स्वभावशुचिता ततः प्रयततां तु तत्राधिकम् // .93 // // 94 // // 95 // नवमो यतिधर्मः धनरजतसुवर्णक्षेत्रकुप्यालयाननृपशुनवविधोऽयं संग्रहो दुर्गतिं यत् / नयति निखिलजीवांस्तद्भजस्वानगार!, निजतनुममतायास्त्यागंतोऽकिञ्चनत्वम् / अकिञ्चनतया यतेर्नवमधर्म एष एव श्रुतः, क्षितौ क्षपितकर्मकः परमयोगदीपाम्बरम् / सुचित्तजलसंवरः कमनमेघचण्डाशुगः प्रमाददहनाम्बुदो मनसि धीयतां सं त्वया मातापित्रोश्च सेवां न गणयति वशां प्रीतिरीति सुतानां, मित्राणां नैवं मैत्री स्वचरणवशिना सेवकानां च मूल्यम् / भक्ति साधर्मिकाणां सुगुरुभगवतामर्चनां कर्महीं , जन्तुश्चेत्काञ्चनार्थी परिहर हृदयं काञ्चनेऽकिञ्चनातः महानर्थो यस्माज्जगति जगतीलङ्घनमयः, पयोधौ संपाते मृतिभृति च धावन्ति पुरुषाः / त्यजन्ति स्वं धर्म परमगुणहेतुं च यतयो, .. जहीहि स्वर्णं त्वं नवममुनिधर्म कुरु करे . 128 // 96 // // 97 //